Charak Samhita Sharira Sthana Adil Farooq Malik  

कतिधापुरुषीय अध्यायः– Charak Samhita

Photo by Pixabay on Pexels.com

Sharira Sthana – Chapter 1

अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते पुरुषः कारणं कस्मात् प्रभवः पुरुषस्य कः ३

किमज्ञो ज्ञः स नित्यः किं किमनित्यो निदर्शितः प्रकृतिः का विकाराः के किं लिङ्गं पुरुषस्य च ४

निष्कियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा ५

निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम्
स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते ६

वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात् सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः ७

न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम् क्षेत्रज्ञाः क्षेत्रमथवा किं पूर्वमिति संशयः ८

ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः ६

साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः १०

अथ चार्तस्य भगवंस्तिसृणां कां चिकित्स प्रतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम् ११

भविष्यन्त्या असंप्राप्तिरतीताया अनागमः सांप्रतिक्या अपि स्थानं नास्त्यर्थः संशयो ह्यतः १२

कारणं वेदनानां किं किमधिष्ठानमुच्यते
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः १३

सर्ववित् सर्वसंन्यासी सर्वसंयोगनिःसृतः एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते १४

इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः १५

खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः १६

पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी १७

लक्षणं मनसो ज्ञानस्याभावो भाव एव च सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते १८

वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते त्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ १६

चिन्त्यं विचार्यमूह्यं च ध्येयं संकल्प्यमेव च यत्किंचिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसंज्ञकम् २०

इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः ऊहो विचारश्च ततः परं बुद्धिः प्रवर्तते २१

इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा २२

जायते विषमे तत्र या बुद्धिर्निश्चयात्मिका व्यवस्यति तया वक्तुं कर्तुं वा वुद्धिपूर्वकम् २३

एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते २४

हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि २५

पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता २६

महाभूतानि खं वायुरग्निरापः क्षितिस्तथा शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः २७

तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः २८

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् प्रकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् २६

लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम् स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः ३०

गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः ३१

या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते याति सा तेन निर्देशं मनसा च मनोभवा ३२

भेदात् कार्येन्द्रियार्थानां बह्वयो बुद्धयः स्मृताः वै आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा ३३

अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा ३४

बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम् चतुर्विंशतिको ह्येष राशिः पुरुषसंज्ञकः ३५

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान् ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते ३६

कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्
मोहः सुखं दुःखं जीवितं मरणं स्वता ३७

एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ पारंपर्यं चिकित्सां च ज्ञातव्यं यच्च किंचन ३८

भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम् न स्युः कर्ता च बोद्धा च पुरुषो न भवेद्यदि ३६

नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक् न विज्ञानं न शास्त्राणि न जन्म मरणं न च ४०

न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः ४१

न चेत् कारणमात्मा स्याद्भादयः स्युरहेतुकाः न चैषु संभवेज्ज्ञानं न च तैः स्यात् प्रयोजनम् ४२

कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम् कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम् ४३

यो वदेत् स वदेद्देहं संभूय करणैः कृतम् बिना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः ४४

कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते ४५

न ते तत्सदृशास्त्वन्ये पारंपर्यसमुत्थिताः सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः ४६

भावास्तेषां समुदयो निरीशः सत्त्वसंज्ञकः
कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः ४७

तेषामन्यैः कृतस्यान्ये भावा भावैर्नवाः फलम् भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते ४८

करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम् ४६

निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये भग्नानां न पुनर्भावः कृतं नान्यमुपैति च ५०

मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम् क्रियोपभोगे भूतानां नित्यः पुरुषसंज्ञकः ५१

अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः विद्यते सति भूतानां कारणे देहमन्तरा ५२

प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः पुरुषो राशिसंज्ञस्तु मोहेच्छाद्वेषकर्मजः ५३

आत्मा ज्ञः करणैर्योगाज्ज्ञानं त्वस्य प्रवर्तते करणानामवैमल्यादयोगाद्वा न वर्तते ५४

पश्यतोऽपि यथाऽऽदर्शे संक्लिष्टे नास्ति दर्शनम्
तत्त्वं जले वा कलुषे चेतस्युपहते तथा ५५

करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च ५६

नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम् संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन ५७

न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः
शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते ५८

अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा ५६

तदेव भावादग्राह्यं नित्यत्वं न कुतश्चन भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा ६०

अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः तस्माद्यदन्यत्तद्व्यक्त वक्ष्यते चापरं द्वयम् ६१

व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम् ६२

खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश ६३

बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च समनस्काश्च पञ्चार्था विकारा इति संज्ञिताः ६४

इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्
अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः ६५

जायते बुद्धिरव्यक्ताद्बद्ध्याऽहमिति मन्यते
परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम् ६६

ततः संपूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते ६७

अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते ६८

येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये
उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा ६६

प्राणापानौ निमेषाद्या जीवनं मनसो गतिः
इन्द्रियान्तरसंचारः प्रेरणं धारणं च यत् ७०

देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा
दृष्टस्य दक्षिणेनादणा सव्येनावगमस्तथा ७१

इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः ७२

यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः ७३

शरीरं हि गते तस्मिञ् शून्यागारमचेतनम् पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते ७४

अचेतनं क्रियावच्च मनश्चेतयिता परः
युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः ७५

चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते अचेतनत्वाच्च मनः क्रियावदपि नोच्यते ७६

यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रकः ७७

वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते वशी चेतः समाधत्ते वशी सर्वं निरस्यति ७८

देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये
सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः ७६

विभुत्वमत एवास्य यस्मात् सर्वगतो महान् मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम् ८०

नित्यानुबन्धं मनसा देहकर्मानुपातिना सर्वयोनिगतं विद्यादेकयोनावपि स्थितम् ८१

आादिर्नास्त्यात्मनः क्षेत्रपारं पर्यमनादिकम् अतस्तथोरनादित्वात् किं पूर्वमिति नोच्यते ८२

ज्ञः सात्युण्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः ८३

नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते ८४

संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः
वेदना यत्र नियता विशेषस्तत्र तत्कृतः ८५

चिकित्सति भिषक सर्वास्त्रिकाला वेदना इति यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम् ८६

पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः पुनः स कासो बलवांश्छर्दिः सा पुनरागता ८७

एभिः प्रसिद्धवचनैरतीतागमनं मतम् कालश्चायमतीतानामर्तीनां पुनरागतः ८८

तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते अतीतानां प्रशमनं वेदनानां तदुच्यते ८६

आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम् यथा प्रक्रियते सेतुः प्रतिकर्म तथाऽऽश्रये ६०

पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम् या क्रिया क्रियते सा च वेदनां हन्त्यनागताम् ६१

पारंपर्यानुबन्धस्तु दुःखानां विनिवर्तते सुखहेतूपचारेण सुखं चापि प्रवर्तते ६२

न समा यान्ति वैषम्यं विषमाः समतां न च हेतुभिः सदृशा नित्यं जायन्ते देहधातवः ६३

युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक् हन्तीत्युक्तं चिकित्सा तु नैष्टिकी या विनोपधाम् ६४

उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः
त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः ६५

कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् उपादत्ते यथाऽर्थेभ्यस्तृष्णामज्ञः सदाऽऽतुरः ६६

यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते ६७

धीधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम् असात्म्यार्थागमश्चेति ज्ञातव्या दुखहेतवः ९८

विषमाभिनिवेशो यो नित्यानित्ये हिताहिते ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति ६६

विषयप्रवणं सत्त्वं घृतिभ्रंशान्न शक्यते नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका १००

तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम् १०१

धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम् प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम् १०२

उदीरणं गतिमतामुदीर्णानां च निग्रहः सेवनं साहसानां च नारीणां चातिसेवनम् १०३

कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् विनयाचारलोपश्च पूज्यानां चाभिधर्षणम् १०४

ज्ञातानां स्वयमर्थानामहितानां निषेवणम् परमौन्मादिकानां च प्रत्ययानां निषेवणम् १०५

कालादेशसंचारौ मैत्री संक्लिष्टकर्मभिः इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम् १०६

ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च १०७

यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्
प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् १०८

बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम् प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् १०६

निर्दिष्टा कालसंप्राप्तिर्व्याधीनां व्याधिसंग्रहे चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा ११०

मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च या १११

पूर्वमध्यापराह्लाश्च रात्र्या यामास्त्रयश्च ये एषु कालेषु नियता ये रोगास्ते च कालजाः ११२

अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ
स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः ११३

एते चान्ये च ये केचित् कालजा विविधा गदाः अनागते चिकित्स्यास्ते बलकालौ विजानता ११४

कालस्य परिणामेन जरामृत्युनिमित्तजाः
रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ११५

निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम् हेतुस्तदपि कालेन रोगाणामुपलभ्यते १९६

न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते क्रियाघ्राः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात् १९७

प्रत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च
शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः १९८

परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते ११६

असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः १२०

यो भूतविषवातानामकालेनागतश्च यः स्नेहशीतोष्णसंस्पर्शो मिथ्यायोगः स उच्यते १२१

रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात् दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् १२२

द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात् तामसानां च रूपाणां मिथ्यासंयोग उच्यते १२३

अत्यादानमनादानमोकसात्म्यादिभिश्च यत् रसानां विषमादानमल्पादानं च दूषणम् १२४

अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम् सेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम् १२५

पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः तैर्गन्धैर्घाणसंयोगो मिथ्यायोगः स उच्यते १२६

इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम् १२७

मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः १२८

वेदनानामशान्तानामित्येते हेतवः स्मृताः सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः १२६

नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः १३०

सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक्
न सुखं कारणं तस्माद्योग एव चतुर्विधः १३१

नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना सुखदुःखं यथा यच्च बोद्धव्यं तत्तथोच्यते १३२

स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः १३३

इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्त तृष्णा च सुखदुःखानां कारणं पुनरुच्यते १३४

उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः १३५

वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः केशलोमनखाग्रान्नमलद्रवगुणैर्विना १३६

योगे मोक्षे च सर्वासां वेदनानामवर्तनम् मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः १३७

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे १३८

निवर्तते तदुभयं वशित्वं चोपजायते सशरीस्य योगज्ञास्तं योगमृषयो विदुः १३६

आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम् १४०

इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्
शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते १४१

मोक्षो रजस्तमोऽभावात् बलवत्कर्मसंक्षयात् वियोगः सर्वसंयोगैरपुनर्भव उच्यते १४२

सतामुपासनं सम्यगसतां परिवर्जनम्
व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः १४३

धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः १४४

कर्मेणामसमारम्भः कृतानां च परिक्षयः नैष्क्रम्यमनहङ्कारः संयोगे भयदर्शनम् १४५

मनोबुद्धिसमाधानमर्थतत्वपरीक्षणम् तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते १४६

स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते १४७

वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात् १४८

सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात् दृष्टश्रुतानुभूतानां स्मरणात् स्मृतिरुच्यते १४६

एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम् तत्त्वस्मृतिबलं येन गता न पुनरागताः १५०

अयनं पुनराख्यातमेतद्योगस्य योगिभिः
संख्यातधर्मैः सांख्यैश्च मुक्तैर्मोक्षस्य चायनम् १५१

सर्वं कारणवद्दुः खमस्वं चानित्यमेव च न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता १५२

यावन्नोत्पद्यते सत्या बुधिर्नैतदहं यया नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते १५३

तस्मिंश्चरमसंन्यासे समूलाः सर्ववेदनाः
ससंज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः १५४

अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति १५५

तत्र श्लोकः-

प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना १५६

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः १

Leave A Comment