Charak Samhita Sharira Sthana Adil Farooq Malik  

खुड्डिकां गर्भावक्रान्ति शारीर अध्यायः– Charak Samhita

Photo by Pixabay on Pexels.com

Sharira Sthana – Chapter 3

अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति
संसर्गः ऋतुकाले यदा चानयोस्तथायुक्ते संसर्गे शुक्रशोणितसंसर्गमन्तर्ग र्भाशयगतं जीवोऽवक्रामति सत्त्वसंप्रयोगात्तदा गर्भोऽभिनिर्वर्तते स सात्म्यर सोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः ततः प्राप्तकालः सर्वे न्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसंपदुपेतः सुखेन जायते समु दयादेषां भावानां– मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च अस्ति च खलु सत्त्वमौपपादुकमिति होवाच भगवानात्रेयः ३

नेति भरद्वाजः किं कारणं न हि माता न पिता नात्मा न सात्म्यं न पानाश नभक्ष्यलेह्योपयोगा गर्भं जनयन्ति न च परलोकादेत्य गर्भं सत्त्वमवक्रामति १

यदि हि मातापितरौ गर्भं जनयेतां भूयस्यः स्त्रियः पुमांसश्च भूयांसः पुत्रका माः ते सर्वे पुत्रजन्माभिसन्धाय मैथुनधर्ममापद्यमानाः पुत्रानेव जनयेयुर्दुहि तृर्वा दुहितृकामाः न तु काश्चित् स्त्रियः केचिद्वा पुरुषा निरपत्याः स्युरपत्य कामा वा परिदेवेरन् २ न चात्माऽऽत्मानं जनयति यदि ह्यात्माऽऽत्मानं जनयेज्जातो वा जनयेदात्मानमजातो वा तच्चोभयथा
ऽप्ययुक्तम् न हि जातो जनयति सत्त्वात् न चाजातो जनयत्यसत्त्वात् तस्मादुभयथा ऽप्यनुपपत्तिः तिष्ठतु तावदेतत् यद्ययमात्माऽऽत्मानं शक्तो जनयितुं स्यात् न त्वेनमिष्टास्वेव कथं योनिषु जनयेद्वशिनमप्रतिहतगतिं कामरूपिणं तेजोबलजववर्णसत्त्वसंहननसमुदि तमजरमरुजममरम् एवंविधं ह्यात्मात्मानमिच्छत्यतो वा भूयः ३

असात्म्यजश्चायं गर्भः यदि हि सात्म्यजः स्यात् तर्हि सात्म्यसेविनामेवैकान्तेन प्रजा स्यात् असा त्म्यसेविनश्च निखिलेनानपत्याः स्युः तच्चोभयमुभयत्रैव दृश्यते ४

अरसजश्चायं गर्भः यदि हि रसजः स्यात् न केचित् स्त्रीपुरुषेष्वनपत्याः स्युः न हि कश्चिदस्त्येषां यो रसान्नोपयुङ्क्ते श्रेष्ठरसोपयोगिनां चेद्गर्भा जायन्त इत्यभिप्रेतमिति एवं सत्याजौरभ्रमार्गमायूरगोक्षीरदधिघृतमधुतैलसैन्धवेचुरसमुद्गशालिभृताना वै कान्तेन प्रजा स्यात् श्यामाकवरकोद्दालककोरदूषककन्दमूलभक्षाश्च निखि लेनानपत्याः स्युः तच्चोभयत्र दृश्यते ५ न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति यदि ह्येनमवक्रामेत् नास्य किञ्चित् पौर्वदेहिकं स्यादविदितमश्रुतमदृष्टं वा स च तच्च न किञ्चिदपि स्मरति ६

तस्मादेतद्भूमहे–श्रमातृजश्चायं गर्भोऽपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च न चास्ति सत्त्वमौपपादुकमिति होवाच भरद्वाजः ४

नेति भगवानात्रेयः सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्यो गर्भोऽभिनिर्वर्तते ५

मातृजश्चायं गर्भः न हि मातुर्विना गर्भोत्पत्तिः स्यात् न च जन्म जरायुजानाम् यानि खल्वस्य गर्भस्य मातृजानि यानि चास्य मातृतः संभवतः संभवन्ति तान्यनुव्याख्यास्यामः तद्यथा- त्वक् च लोहितं च मांसं च मेदश्च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषाधानं चामाशयश्च पक्वाशयश्चोत्तरगुदं चाधरगुदं च क्षुद्रान्त्रं च स्थूलान्त्रं च वपा च वपावनं चेति मातृजानि ६

पितृजश्चायं गर्भः नहि पितुर्ऋते गर्भोत्पत्तिः स्यात् न च जन्म जरायुजानाम् यानि खल्वस्य गर्भस्य पितृजानि यानि चास्य पितृतः संभवतः संभवन्ति तान्यनुव्याख्यास्यामः तद्यथा- केशश्मश्रुनखलोमदन्तास्थिसिरास्त्रायुधमन्यः शुक्रं चेति पितृजानि ७

आत्मजश्चायं गर्भः गर्भात्मा ह्यन्तरात्मा यः तं जीव इत्याचक्षते शाश्वतमरुजमजरममरमक्षयम भेद्यमच्छेद्यमलोड्यं विश्वरूपं विश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्म नात्मानम् आत्मसंज्ञा हि गर्भे
तस्य पुनरात्मनो जन्मानादित्वान्नोपपद्यते तस्मान्न जात एवायमजातं गर्भं ज नयति अजातो ह्ययमजातं गर्भं जनयति स चैव गर्भः कालान्तरेण बालयुव स्थविरभावान् प्राप्नोति स यस्यां यस्यामवस्थायां वर्तते तस्यां तस्यां जातो भवति या त्वस्य पुरस्कृता तस्यां जनिष्यमाणश्च तस्मात् स एव जातश्चाजा तश्च युगपद्भवति यस्मिंश्चैतदुभयं संभवति जातत्वं जनिष्यमाणत्वं च स जातो जन्यते स चैवानागतेष्ववस्थान्तरेष्वजातो जन्ययत्यात्मनाऽऽत्मानमसतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते तत्र तत्र वयसि तस्यां त स्यामवस्थायां यथासतामेव शुक्रशोणितजीवानां प्राक् संयोगाद्गर्भत्वं न भवति तच्च संयोगाद्भवति यथासतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृत्वं न भवति तच्चापत्याद्भवति तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वं चोच्यते ८

न खलु गर्भस्य न च मातुर्न पितुर्न चात्मनः सर्वभावेषु यथेष्टकारित्वमस्ति ते किंचित् स्ववशात् कुर्वन्ति किंचित् कर्मवशात् क्वचिच्चैषां करणशक्ति र्भवति क्वचिन भवति यत्र सत्त्वादिकरणसंपत्तत्र यथाबलमेव यथेष्टकारित्वम् तोऽन्यथा विपर्ययः न च करणदोषादकरणमात्मा संभवति गर्भजनने दृष्टं चेष्टा योनिरैश्वर्यं मो क्षश्चात्मविद्भिरात्मायत्तम् नह्यन्यः सुखदुःखयोः कर्तान चान्यतो गर्भो जायते जायमानः नाङ्करोत्पत्तिरबीजात्यानि तु खल्वस्य गर्भस्यात्मजानि यानि चास्यात्मतः संभवतः संभवन्ति तान्यनुव्याख्यास्यामः तद्यथा तासु तासु योनिषूत्पत्तिरायुरात्मज्ञानं मन न्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छा द्वेषौ चेतना धृतिर्बुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेति प्रात्मजानि १०

सात्म्यजश्चायं गर्भःनह्यसात्म्यसेवित्वमन्तरेण स्त्रीपुरुषयोर्वन्ध्यत्वमस्ति गर्भेषु वाऽप्यनिष्टो भा
यावत् खल्वसात्म्यसेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपस पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते तावत् समर्था गर्भजननाय भवन्ति सात्म्यसेविनां पुनः स्त्रीपुरुषाणामनुपहत शुक्रशोणितगर्भाशयानामृतुकाले स निपतितानां जीवस्यानवक्रमणाद्गर्भा न प्रादुर्भवन्ति
नहि केवलं सात्म्यज एवायं गर्भः समुदयोऽत्र कारणमुच्यते यानि खल्वस्य गर्भस्य सात्म्यजानि यानि चास्य सात्म्यतः संभवतः संभ वन्ति तान्यनुव्याख्यास्यामः तद्यथा- आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसादः स्वरवर्णबीजसंपत् प्रहर्षभूयस्त्वं चेति सात्म्यजानि ११

रसजश्चायं गर्भः न हि रसादृते मातुः प्राणयात्राऽपि स्यात् किं पुनर्गर्भजन्म न चैवासम्यगुपयुज्यमाना रसा गर्भमभिनिर्वर्तयन्ति न च केवलं सम्यगुप योगादेव रसानां गर्भाभिनिर्वृत्तिर्भवति समुदायोऽप्यत्र कारणमुच्यते यानि तु खल्वस्य गर्भस्य रसजानि यानि चास्य रसतः संभवतः संभवन्ति तान्यनुव्याख्यास्यामः तद्यथा– शरीरस्याभिनिर्वृत्तिरभिवृद्धिः प्राणानुबन्ध स्तृप्तिः पुष्टिरुत्साहश्चेति रसजानि १२

अस्ति खलु सत्त्वमौपपादुकं यज्जीवं स्पृक्शरीरेणाभिसंबध्नाति यस्मिन्नपगम नपुरस्कृते शीलमस्य व्यावर्तते भक्तिर्विपर्यस्यते सर्वेन्द्रियाण्युपतप्यन्ते बलं हीयते व्याधय प्याय्यन्ते यस्माद्धीनः प्राणाञ्जहाति यदिन्द्रियाणामभिग्रा हकं च मन इत्यभिधीयते तत्त्रिविधमाख्यायते शुद्धं राजसं तामसमिति येनास्य खलु मनो भूयिष्टं तेन द्वितीयायामाजातौ संप्रयोगो भवति यदा तु तेनैव शुद्धेन संयुज्यते तदा जातेरतिक्रान्ताया अस्मित स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते यस्यानुवृत्तिं पुरस्कृत्य पुरुषो जातिस्मर इत्युच्यते यानि खल्वस्य गर्भस्य सत्त्वजानि यान्यस्य सत्त्वतः संभवतः संभवन्ति ता न्यनुव्याख्यास्यामः तद्यथा–भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मा त्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैदण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमि त्येवमादयश्चान्ये ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः नानाविधानि खलु सत्त्वानि तानि सर्वाण्येकपुरुषे भवन्ति न च भवन्त्येक कालम् एकं तु प्रायोवृत्त्याऽऽह १३

एवमयं नानाविधानामेषां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः यथा– कूटागारं नानाद्रव्यसमुदायात् यथा वा रथो नानारथाङ्गसमुदायात् तस्मादेतदवोचाम मातृजश्चायं गर्भः पितृजश्च प्रात्मजश्च सात्म्यजश्च रसजश्च अस्ति च सत्त्वमौपपादुकमिति होवाच भगवानात्रेयः १४

भरद्वाज उवाच — यद्ययमेषां नानाविधानां गर्भकराणां भावानां समुदायाद भिनिर्वर्तते गर्भः कथमयं सन्धीयते यदि चापि सन्धीयते कस्मात् समुदाय प्रभवः सन् गर्भो मनुष्यविग्रहेण जायते मनुष्यश्च मनुष्यप्रभव उच्यते तत्र चेदिष्टमेतद्यस्मान्मनुष्यो मनुष्यप्रभवस्तस्मादेव मनुष्यविग्रहेण जायते यथागौर्गोप्रभवः यथा-चाश्वोऽश्वप्रभव इति एवं सति यदुक्तमग्रे समुदयात्मक इति तदयुक्तम् यदि च मनुष्यो मनुष्यप्रभवः कस्माज्जडान्धकुब्जमूकवामनमिन्मिनव्यङ्गोन्म त्तकुष्ठिकिलासिभ्यो जाताः पितृसदृशरूपा न भवन्ति थानापि बुद्धिरेवं स्यात्– स्वेनैवायमात्मा चक्षुषा रूपाणि वेत्ति श्रोत्रेण शब्दान् घ्राणेन गन्धान् रसनेन रसान् स्पर्शनेन स्पर्शान् बुद्ध्या बोद्धव्यमि त्यनेन हेतुना न जडादिभ्यो जाताः पितृसदृशा भवन्ति अत्रापि प्रतिज्ञाहानिदोषः स्यात् एवमुक्ते ह्यात्मा सत्स्विन्द्रियेषु ज्ञः स्यादस त्स्वज्ञः यत्र चैतदुभयं संभवति ज्ञत्वमज्ञत्वं च सविकारश्चात्मा यदि च दर्शनादिभिरात्मा विषयान् वेत्ति निरिन्द्रियो दर्शनादिविरहादज्ञः स्यात् अज्ञत्वादकारणम् अकारणत्वाच्च नात्मेति वाग्वस्तुमात्रमेतद्वचनमनर्थं स्या दिति होवाच भरद्वाजः १५

प्रात्रेय उवाच- पुरस्तादेतत् प्रतिज्ञातं – सत्त्वं जीवं स्पृक्शरीरेणाभिसंब यस्मात्तु समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते मनुष्यो मनुष्यप्रभव इत्युच्यते तद्द्वक्ष्यामः भूतानां चतुर्विधा योनिर्भवति-
जराय्वण्डस्वेदोद्भिदः तासां खलु चतसृणामपि योनीनामेकैका योनिरपरिसंख्येयभेदा भवति भूतानामाकृतिविशेषापरिसंख्येयत्वात्
तत्र जरायुजानामण्डजानां च प्राणिनामेते गर्भकरा भावा यां यां योनिमाप तथातथारूपा भवन्ति यथा- कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि तेषु तेषु मधूच्छिष्टविग्रहेषु ता नि यदा मनुष्यबिम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते तस्मात् समुदाय – प्रभवः सन् गर्भो मनुष्यविग्रहेण जायते मनुष्यश्च मनुष्यप्रभव उच्यते तद्यो नित्वात् १६

द्यन्ते तस्यां तस्यां योनयच्चोक्तं–यदि च मनुष्यो मनुष्यप्रभवः कस्मान्न जडादिभ्यो जाताः पितृस दृशरूपा भवन्तीति तत्रोच्यते– यस्य यस्य ह्यङ्गावयवस्य बीजे बीजभाग उपतप्तो भवति तस्य तस्याङ्गावयवस्य विकृतिरुपजायते नोपजायते चानुप तापात् तस्मादुभयोपपत्तिरप्यत्र सर्वस्य चात्मजानीन्द्रियाणि तेषां भावाभावहेतुर्दैवं तस्मान्नैकान्ततो जडादिभ्यो जाताः पितृसदृशरूपा भवन्ति १७

न चात्मा सत्स्विन्द्रियेषु ज्ञः असत्सु वा भवत्यज्ञः न ह्यसत्त्वः कदाचिदात्मा सत्त्वविशेषाच्चोपलभ्यते ज्ञानविशेष इति १८

भवन्ति चात्र-

न कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते
या क्रिया वर्तते भावैः सा विना तैर्न वर्तते १६

जानन्नपि मृदोऽभावात् कुम्भकृन्न प्रवर्तते श्रूयतां चेदमध्यात्ममात्मज्ञानबलं महत् २०

इन्द्रियाणि च संक्षिप्य मनः संक्षिप्य चञ्चलम् प्रविश्याध्यात्ममात्मज्ञः स्वे ज्ञाने पर्यवस्थितः २१

सर्वत्रावहितज्ञानः सर्वभावान् परीक्षते गृह्णीष्व चेदमपरं भरद्वाज विनिर्णयम् २२

निवृत्तेन्द्रियवाक्चेष्टः सुप्तः स्वप्नगतो यदा विषयान् सुखदुःखे च वेत्ति नाज्ञोऽप्यतः स्मृतः २३

नात्मज्ञानादृते चैकं ज्ञानं किञ्चित् प्रवर्तते
न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः २४

तस्माज्ज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च सर्वमेतद्भरद्वाज निर्णीतं जहि संशयम् २५

तत्र श्लोकौ :-

हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव यः पुनर्वसुमतिर्या च भरद्वाजमतिश्च या २६

प्रतिज्ञाप्रतिषेधश्च विशदश्चात्मनिर्णयः
गर्भावक्रान्तिमुद्दिश्य खुड्डीकां तत्प्रकाशितम् २७

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने खुड्डिकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ३

Leave A Comment