Charak Samhita Sharira Sthana Adil Farooq Malik  

पुरुषविचय शारीर अध्यायः– Charak Samhita

Photo by Pixabay on Pexels.com

Sharira Sthana – Chapter 5

अथातः पुरुषविचयं शारीरं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

पुरुषोऽयं लोकसंमितः इत्युवाच भगवान् पुनर्वसुरात्रेयः यावन्तो हि लोके मूर्तिमन्तो भावविशेषास्तावन्तः पुरुषे यावन्तः पुरुषे ता वन्तो लोके इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच नैतावता वाक्ये – नोक्तं वाक्यार्थमवगाहामहे भगवता बुद्ध्या भूयस्तरमतोऽनुव्याख्यायमानं शुश्रूषामह इति ३

तमुवाच भगवानात्रेयः– अपरिसंख्येया लोकावयव विशेषाः पुरुषावयव – विशेषा प्यपरिसंख्येयाः तेषां यथास्थूलं कतिचिद्भावान् सामान्यमभिप्रे त्योदाहरिष्यामः तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश षड्धातवः समुदिताः लोक इति शब्दं लभन्ते तद्यथा पृथिव्यापस्तेजो वायु राकाशं ब्रह्म चाव्यक्तमिति एत एव च षड्धातवः समुदिताः पुरुष इति शब्द लभन्ते ४

तस्य पुरुषस्य पृथिवी मूर्तिः आपः क्लेदः तेजोऽभिसन्तापः वायुः प्राणः वि यत् सुषिराणि ब्रह्मा अन्तरात्मायथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः ब्रह्मणो विभूतिर्लोक प्रजापतिरन्तरात्मनो विभूतिः पुरुषे सत्त्वं यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः आदित्यस्त्वादानं रुद्रो रोषः सोमः प्रसादः वसवः सुखम् अ श्विनौ कान्तिः मरुदुत्साहः विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च तमो मोहः ज्योतिर्ज्ञानं यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं यथा कृतयुगमेवं बाल्यं यथा त्रेता तथा यौवनं यथा द्वापरस्तथा स्थाविर्यं यथा क लिरेवमातुर्यं यथा युगान्तस्तथा मरणमिति एवमेतेन मानेनानुक्तानाम लोकपुरुषयोरवयव विशेषाणामग्निवेश सामान्यं विद्यादिति ५

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच — एवमेतत् सर्वमनपवादं यथोक्तंभगवता लोकपुरुषयोः सामान्यम्
किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति ६

भगवानुवाच शृण्वनिवेश सर्वलोकमात्मन्यात्मानं च सर्वलोके सममनुपश्यतः सत्या बुद्धिः समुत्पद्यते सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदुःखयोः कर्ता नान्य इति कर्मात्मकत्वाच्च हेत्वादिभिर्युक्तः सर्वलोकोऽहमिति विदित्वा ज्ञानं पूर्वमु त्थाप्यतेऽपवर्गायेति तत्र संयोगापेक्षी लोकशब्दः षड्धातुसमुदायो हि सामान्यतः सर्वलोकः ७

तस्य हेतुः उत्पत्तिः वृद्धिः उपप्लवः वियोगश्च
तत्र हेतुरुत्पत्तिकारणं उत्पत्तिर्जन्म वृद्धिराप्यायनम् उपप्लवो दुःखागमः ष धातुविभागो वियोगः सजीवापगमः स प्राणनिरोधः स भङ्गः स लोक
स्वभावःतस्य मूलं सर्वोपप्लवानां च प्रवृत्तिः निवृत्तिरुपरमः प्रवृत्तिर्दुःखं निवृत्तिः सुखमिति यज्ज्ञानमुत्पद्यते तत् सत्यम् तस्य हेतुः सर्वलोकसामान्यज्ञानम् एतत्प्रयोजनं सामान्योपदेशस्येति ८

प्रथाग्निवेश उवाच – – किंमूला भगवन् प्रवृत्तिः निवृत्तौ च क उपाय इति भगवानुवाच –मोहेच्छाद्वेषकर्ममूलाप्रवृत्तिः तज्जा ह्यहङ्कारसङ्गसंशयाभिसंप्लवाभ्यवपातविप्रत्ययाविशेषानुपायास्तरुण मिव द्रुममतिविपुलशाखास्तरवोऽभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ते यैरभिभूतो न सत्तामतिवर्तते
तत्रैवंजातिरूपवित्तवृत्तबुद्धिशीलविद्याभिजनवयोवीर्यप्रभावसंपन्नोऽहमित्यहङ्कारः यन्मनोवाक्कायकर्म नापवर्गाय स सङ्गः कर्मफलमोक्षपुरुषप्रेत्यभा वादयः सन्ति वा नेति संशयः सर्वावस्थास्वनन्योऽहमहं स्रष्टा स्वभावसंसिद्धोऽहमहं शरीरेन्द्रियबुद्धिस्मृतिविशेषराशिरिति ग्रहणमभिसंप्लवः मम मातृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्य चाहमित्यभ्यवपातः कार्या कार्यहिताहितशुभाशुभेषु विपरीताभिनिवेशो विप्रत्ययः ज्ञाज्ञयोः प्रकृतिवि कारयोः प्रवृत्तिनिवृत्त्योश्च सामान्यदर्शनमविशेषः प्रोक्षणानशनाग्निहोत्रत्रिषवणाभ्युक्षणावाहनयाजनयजनयाचनसलिलहताशनप्रवेशादयः प्रोच्यन्ते ह्यनुपायाः समारम्भाः एवमयमधीधृतिस्मृतिरहङ्काराभिनिविष्टः सक्तः ससंशयोऽभिसंप्लुतबुद्धिर भ्यवपतितोऽन्यथादृष्टिरविशेषग्राही विमार्गगतिर्निवासवृक्षः सत्त्वशरीर दोषमूलानां सर्वदुःखानां भवति एवमहङ्कारादिभिर्दोषभ्राम्यमाणो नातिवर्तते प्रवृत्तिं सा च मूलमघस्य १०

निवृत्तिरपवर्गः तत् परं प्रशान्तं तत्तदक्षरं तद्ब्रह्म स मोक्षः ११

तत्र मुमुक्षूणामुदयनानि व्याख्यास्यामः तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्याभिगमनं तस्योपदेशानुष्ठानम् अग्नेरेवोपचर्या धर्मशास्त्रानुगमनं तदर्थावबोधः तेनावष्टम्भः तत्र यथोक्ताः क्रियाः सतामुपासनम् असतां परिवर्जनम् असङ्गतिदुर्जनेन सत्यं सर्वभूत हितमपरुषमनतिकाले परीक्ष्य वचनं सर्वप्राणिषु चात्मनीवावेक्षा सर्वासा – मस्मरणमसङ्कल्पनमप्रार्थनमनभिभाषणं च स्त्रीणां सर्वपरिग्रहत्यागः कौपीनं प्रच्छादनार्थं धातुरागनिवसनं कन्थासीवनहेतोः सूचीपिप्पलकं शौचाधानहे तोर्जलकुण्डिका दण्डधारणं भैनचर्यार्थं पात्रं प्राणधारणार्थमेककालमग्राम्यो यथोपपन्नोऽभ्यवहारः श्रमापनयनार्थं शीर्णशुष्कपर्णतृणास्तरणोपधानं ध्यान हेतोः कायनिबन्धनं वनेष्वनिकेतवासः तन्द्रानिन्द्रालस्यादिकर्मवर्जनं इन्द्रि यार्थेष्वनुरागोपतापनिग्रहः सुप्तस्थितगतप्रेक्षिताहारविहारप्रत्यङ्गचेष्टादिके ष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः सत्कारस्तुतिगर्हावमानक्षमत्वं क्षुत्पिपासा यासश्रमशीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं शोकदैन्यमानोद्वेगमदलो भरागेर्ष्याभयक्रोधादिभिरसंचलनम् अहङ्कारादिषूपसर्गसंज्ञा लोकपुरुषयोः सर्गादिसामान्यावेक्षण कार्यकालात्ययभयं योगारम्भे सततमनिर्वेदः सत्त्वो त्साहः अपवर्गाय धीधृतिस्मृतिबलाधानं नियमनमिन्द्रियाणां चेतसि चेतस आत्मनि आत्मनश्च धातुभेदेन शरीरावयवसंख्यानमभीक्ष्णं सर्व कारणवद्दुः –

खमस्वमनित्यमित्यभ्युपगमः सर्वप्रवृत्तिष्वघसंज्ञा सर्वसंन्यासे सुखमित्यभि निवेशः एष मार्गोऽपवर्गाय अतोऽन्यथा बध्यते इत्युदयनानि व्याख्याता १२

भवन्ति चात्र-

एतैरविमलं सत्त्वं शुद्धयुपायैर्विशुध्यति मृज्यमान इवादर्शस्तैलचेलकचादिभिः १३

ग्रहाम्बुदरजोधूमनीहारैरसमावृतम् यथाऽर्कमण्डलं भाति भाति सत्त्वं तथाऽमलम् १४

ज्वलत्यात्मनि संरुद्धं तत् सत्त्वं संवृतायने शुद्धः स्थिरः प्रसन्नाचिर्दीपो दीपाशये यथा १५

शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः प्रवर्तते यया भिनत्त्यतिबलं महामोहमयं तमः १६

सर्वभावस्वभावज्ञो यया भवति निःस्पृहः योगं यया साधयते सांख्यः संपद्यते यया १७

यया नोपैत्यहङ्कारं नोपास्ते कारणं यया यया नालम्बते किंचित् सर्वं संन्यस्यते यया १८

याति ब्रह्म यया नित्यमजरं शान्तमव्ययम् विद्या सिद्धिर्मतिर्मेधा प्रज्ञा ज्ञानं च सा मता १६

लोके विततमात्मानं लोकं चात्मनि पश्यतः परावरदृशः शान्तिर्ज्ञानमूला न नश्यति २०

पश्यतः सर्वभावान् हि सर्वावस्थासु सर्वदा ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते २१

नात्मनः करणाभावाल्लिङ्गमप्युपलभ्यते स सर्वकरणायोगान्मुक्त इत्यभिधीयते २२

विपापं विरजः शान्तं परमतरमव्ययम्
अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते २३

एतत्तत् सौम्य विज्ञानं यज्ज्ञात्वा मुक्तसंशयाः
मुनयः प्रशमं जग्मुर्वीतमोहरजःस्पृहाः २४

तत्र श्लोकौ:-

सप्रयोजनमुद्दिष्टं लोकस्य पुरुषस्य च सामान्यं मूलमुत्पत्तौ निवृत्तौ मार्ग एव च २५

शुद्धसत्त्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी विचये पुरुषस्योक्ता निष्ठा च परमर्षिणा २६

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः ५

Leave A Comment