aquatic bloom blooming blossom
Chapter 5 Sutra Sthana Sumit Raina  

Charak Samhita – मात्राशितीयोऽध्यायः

Sutra Sthana – Chapter 5 { स्वास्थ्य चतुष्क }

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

मात्राशी स्यात्|
आहारमात्रा पुनरग्निबलापेक्षिणी||३||

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति||४||

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणि

 प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति|
तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि 

प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते||५||

न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, 

लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति; 

पृथ्वीसोमगुणबहुलानीतराणि, 

तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि, 

गुरूणि पुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यात्, 

अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्; 

सैषा भवत्यग्निबलापेक्षिणी मात्रा||६||

न च नापेक्षते द्रव्यं; द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते, 

लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम्||७||

मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति||८||

भवन्ति चात्र-
गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि|
न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः||९||

वल्लूरं शुष्कशाकानि शालूकानि बिसानि च|
नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत्||१०||
कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे|
मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत्||११||

षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्|
आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत्||१२||

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते|
अजातानां विकाराणामनुत्पत्तिकरं च यत्||१३||

अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्|
स्वस्थवृत्तिमभिप्रेत्य गुणतः सम्प्रवक्ष्यते||१४||

सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्|
पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम्||१५||

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्|
ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्||१६||
दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्|
विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति||१७||
तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते|१८|

यथा हि कनकादीनां मलिनां [] विविधात्मनाम्||१८||
धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः|
एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः||१९||
दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्|२०|

हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्||२०||
ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्|
ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्||२१||
न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः|
वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले||२२||
श्रीवेष्टकं शल्लकीं च शुकबर्हमथापि च|
पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्||२३||
अङ्गुष्ठसम्मितां कुर्यादष्टाङ्गुलसमां भिषक्|
शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः||२४||
स्नेहाक्तामग्निसम्प्लुष्टां पिबेत् प्रायोगिकीं सुखाम्|२५|

वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः||२५||
वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्|२६|

श्वेता ज्योतिष्मती चैव हरितालं मनःशिला||२६||
गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने |२७|

गौरवं शिरसः शूलं पीनसार्धावभेदकौ||२७||
कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः|
दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः||२८||
पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः|
हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे||२९||
श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका|
खालित्यं पिञ्जरत्वं च केशानां पतनं तथा||३०||
क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता|
धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम्||३१||
शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च|
न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः||३२||
धूमवक्त्रकपानस्य व्याधयः स्युः शिरोगताः|३३|

प्रयोगपाने तस्याष्टौ कालाः सम्परिकीर्तिताः||३३||
वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते|
स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च|
नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्|
तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः||३५||
रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः|३६|

परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान्||३६||
प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत्|
हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः||३७||
यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्|३८|

बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्||३८||
अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्|
तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्||३९||
स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि|
शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम्||४०||

परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः|
न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि||४१||
न रक्ती न विषेणार्तो न शोचन्न च गर्भिणी|
न श्रमे न मदे नामे न पित्ते न प्रजागरे||४२||
न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते|
न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम्||४३||
धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्ध एव च|
न तालुशोषे तिमिरे शिरस्यभिहिते न च||४४||
न शङ्खके न रोहिण्यां न मेहे न मदात्यये|
एषु धूममकालेषु मोहात् पिबति यो नरः||४५||
रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्|४६|

धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये||४६||
घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्|
आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत्||४७||
प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी|४८|

ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम्||४८||
पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्|४९|

चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने||४९||
द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते|
ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्||५०||
बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते|५१|

दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः||५१||
नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः|५२|

यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्||५२||
कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्|
अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्||५३||
स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्|
तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते||५४||
तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्|
शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते||५५||
इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते|५६|

वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्||५६||
प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले|
नस्यकर्म यथाकालं यो यथोक्तं निषेवते||५७||
न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते|
न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः||५८||
न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः|
मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः||५९||
पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति|
सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः||६०||
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्|
मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्||६१||
सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्|
न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः||६२||
जीर्यतश्चोत्तमाङ्गेषु जरा न लभते बलम्|६३|

चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||६३||
प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्|
ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्||६४||
जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम्|
हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||६५||
विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि|
तैलाद्दशगुणं शेषं कषायमवतारयेत्||६६||
तेन तैलं कषायेण दशकृत्वो विपाचयेत्|
अथास्य दशमे पाके समांशं छागलं पयः||६७||
दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः|
अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम्||६८||
स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः|
त्र्यहात्त्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत्||६९||
निवातोष्णसमाचारी हिताशी नियतेन्द्रियः|
तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम्||७०||
प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्|७१|

आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्||७१||
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्|
निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्||७२||
निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्|
करञ्जकरवीरार्कमालतीककुभासनाः||७३||
शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः|
सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च||७४||
जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च|
जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च||७५||
दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्|७६|

धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता||७६||
जातीकटुकपूगानां लवङ्गस्य फलानि च|
कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा|
तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च||७७||

हन्वोर्बलं स्वरबलं वदनोपचयः परः|
स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा||७८||
न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्|
न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च||७९||
न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च|
परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्||८०||
नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते|
न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||८१||
बलं शिरःकपालानां विशेषेणाभिवर्धते|
दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च||८२||
इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम् |
निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्||८३||
न कर्णरोगा वातोत्था न मन्याहनुसङ्ग्रहः|
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्||८४||
स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्|
भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा||८५||
तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते|
प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||८६||
स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्|
त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः||८७||
न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः|
विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्||८८||
सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः|
भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च||८९||

खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः|
सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||९०||
जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः|
दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति||९१||
न च स्याद्गृध्रसीवातः पादयोः स्फुटनं न च|
न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः||९२||

दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्|
स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||९३||
पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम् |
शरीरबलसन्धानं स्नानमोजस्करं परम्||९४||

काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्|
श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||९५||
वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्|
सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||९६||
धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्|
हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्||९७||
मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्|
पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः||९८||
पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्|
केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्||९९||
चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्|
बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||१००||
ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम्|
घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते||१०१||
स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्|
अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्||१०२||

नगरी नगरस्येव रथस्येव रथी यथा|
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्||१०३||

भवति चात्र-
वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः|
शममध्ययनं चैव सुखमेवं समश्नुते||१०४||

तत्र श्लोकाः-
मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्|
द्रव्याणां गर्हितोऽभ्यासो येषां, येषां च शस्यते||१०५||
अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना|
धूमपानगुणाः कालाः पानमानं च यस्य यत्||१०६||
व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः|
पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम्||१०७||
नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा|
भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत्||१०८||
यदर्थं यानि चास्येन धार्याणि कवलग्रहे|
तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये||१०९||
कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने|
स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे||११०||
शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे|
गुणा मात्राशितीयेऽस्मिंस्तथोक्ता दण्डधारणे||१११||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः||५||

The Herbal Doc

Share this article !!

Leave A Comment