beautiful bloom blooming blossom
Charak Samhita Nidana Sthana Sumit Raina  

रक्तपित्तनिदानम् – Charak Samhita

Nidana Sthana – Chapter 2

अथातो रक्तपित्तनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पित्तं यथाभूतं लोहितपित्तमिति सञ्ज्ञां लभते, तद् व्याख्यास्यामः||३||

यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं, पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रु(खडयूष ) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा, पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो वाऽतिमात्रमतिवेलं वाऽऽमं पयः पिबति, पयसा समश्नाति रौहिणीकं , काणकपोतं वा सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा सह क्षीरं पिबत्युष्णाभितप्तः ; तस्यैवमाचरतः पित्तं प्रकोपमापद्यते, लोहितं च स्वप्रमाणमतिवर्तते|
तस्मिन् प्रमाणातिवृत्ते पित्तं प्रकुपितं शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां लोहितवहानां च स्रोतसां लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य प्रतिरुन्ध्यात् तदेव लोहितं दूषयति||४||

संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च पित्तं लोहितपित्तमित्याचक्षते||५||

तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- अनन्नाभिलाषः, भुक्तस्य विदाहः, शुक्ताम्लगन्धरस उद्गारः, छर्देरभीक्ष्णमागमनं, छर्दितस्य बीभत्सता, स्वरभेदो, गात्राणां सदनं, परिदाहः, मुखाद्धूमागम इव, लोहलोहितमत्स्यामगन्धित्वमिव चास्यस्य, रक्तहरितहारिद्रत्वमङ्गावयवशकृन्मूत्रस्वेदलालासिङ्घाणकास्यकर्णमलपिडकोलिकापिडकानाम् , अङ्गवेदना, लोहितनीलपीतश्यावानामर्चिष्मतां च रूपाणां स्वप्ने दर्शनमभीक्ष्णमिति (लोहितपित्तपूर्वरूपाणि भवन्ति)||६||

उपद्रवास्तु खलु दौर्बल्यारोचकाविपाकश्वासकासज्वरातीसारशोफशोषपाण्डुरोगाः स्वरभेदश्च||७||

मार्गौ पुनरस्य द्वौ ऊर्ध्वं, चाधश्च|
तद्बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूर्ध्वं प्रतिपद्यमानं कर्णनासिकानेत्रास्येभ्यः प्रच्यवते, बहुवाते तु शरीरे वातसंसर्गादधः प्रतिपद्यमानं मूत्रपुरीषमार्गाभ्यां प्रच्यवते, बहुश्लेष्मवाते तु शरीरे श्लेष्मवातसंसर्गाद्द्वावपि मार्गौ प्रतिपद्यते, तौ मार्गौ प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्यवते शरीरस्य||८||
तत्र यदूर्ध्वभागं तत् साध्यं, विरेचनोपक्रमणीयत्वाद्बह्वौषधत्वाच्च; यदधोभागं तद्याप्यं, वमनोपक्रमणीयत्वादल्पौषधत्वाच्च; यदुभयभागं तदसाध्यं, वमनविरेचनायोगित्वादनौषधत्वाच्चेति||९||

रक्तपित्तप्रकोपस्तु खलु पुरा दक्षयज्ञोद्ध्वंसे रुद्रकोपामर्षाग्निना प्राणिनां परिगतशरीरप्राणानामभवज्ज्वरमनु||१०||

तस्याशुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्याशु प्रशान्त्यै प्रयतितव्यं मात्रां देशं कालं चाभिसमीक्ष्य सन्तर्पणेनापतर्पणेन वा मृदुमधुरशिशिरतिक्तकषायैरभ्यवहार्यैः प्रदेहपरिषेकावगाहसंस्पर्शनैर्वमनाद्यैर्वा तत्रावहितेनेति||११||

भवन्ति चात्र- साध्यं लोहितपित्तं तद्यदूर्ध्वं प्रतिपद्यते|
विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य च||१२||
विरेचनं तु पित्तस्य जयार्थे परमौषधम्|
यश्च तत्रान्वयः श्लेष्मा तस्य चानधमं स्मृतम्||१३||
भवेद्योगावहं तत्र मधुरं चैव भेषजम्|
तस्मात् साध्यं मतं रक्तं यदूर्ध्वं प्रतिपद्यते||१४||

रक्तं तु यदधोभागं तद्याप्यमिति निश्चितम्|
वमनस्याल्पयोगित्वादल्पत्वाद्भेषजस्य च||१५||
वमनं हि न पित्तस्य हरणे श्रेष्ठमुच्यते|
यश्च तत्रान्वयो वायुस्तच्छान्तौ चावरं स्मृतम्||१६||
तच्चायोगावहं तत्र कषायं तिक्तकानि च|
तस्माद्याप्यं समाख्यातं यदुक्तमनुलोमगम् ||१७||

रक्तपित्तं तु यन्मार्गौ द्वावपि प्रतिपद्यते|
असाध्यमिति तज्ज्ञेयं पूर्वोक्तादेव कारणात्||१८||
नहि संशोधनं किञ्चिदस्त्यस्य प्रतिमार्गगम्|
प्रतिमार्गं च हरणं रक्तपित्ते विधीयते||१९||
एवमेवोपशमनं सर्वशो नास्य विद्यते|
संसृष्टेषु च दोषेषु सर्वजिच्छमनं मतम् ||२०||
इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषतः|२१|

एभ्यस्तु खलु हेतुभ्यः किञ्चित्साध्यं न सिध्यति||२१||
प्रेष्योपकरणाभावाद्दौरात्म्याद्वैद्यदोषतः|
अकर्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्तते||२२||
तत्रासाध्यत्वमेकं स्यात् साध्ययाप्यपरिक्रमात्|२३|

रक्तपित्तस्य विज्ञानमिदं तस्योपदिश्यते||२३||
यत् कृष्णमथवा नीलं यद्वा शक्रधनुष्प्रभम्|
रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत्||२४||
भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत्|
बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत्||२५||
येन चोपहतो रक्तं रक्तपित्तेन मानवः|
पश्येद्दृश्यं वियच्चापि तच्चासाध्यं न संशयः||२६||

तत्रासाध्यं परित्याज्यं, याप्यं यत्नेन यापयेत्|
साध्यं चावहितः सिद्धैर्भेषजैः साधयेद्भिषक्||२७||

तत्र श्लोकौ- कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्|
मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्||२८||
निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः|
वीतमोहरजोदोषलोभमानमदस्पृहः||२९||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः||२||

The Herbal Doc

Leave A Comment