Charak Samhita Indriya Sthana Adil Farooq Malik  

वर्णस्वरीयामन्द्रिय अध्यायः– Charak Samhita

Photo by Pixabay on Pexels.com

Indriya Sthana – Chapter 1

अथातो वर्णस्वरीयामन्द्रियं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया च प्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीच्याणि प्रत्यक्षानुमानोपदेशेरा युषः प्रमाणावशेषं जिज्ञासमानेन भिषजा ३

तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि कानिचिच्च पुरुष संश्रयाणि तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत पुरुषसंश्रयाणिपुनः प्रकृतितो विकृतितश्च ४

तत्र प्रकृतिर्जातिप्रसक्ता च कुलप्रसक्ता च देशानुपातिनी च कालानुपातिनी च वयोऽनुपातिनी च प्रत्यात्मनियता चेति जातिकुलदेशकालवयः प्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भाववि शेषा भवन्ति ५

विकृतिः पुनर्लक्षणनिमित्ता च लक्ष्यनिमित्ता च निमित्तानुरूपा च ६

तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात् लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति यानि हि स्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति १ लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं निदानेषु २

निमित्तानुरूपा तु निमित्तार्थानुकारिणी या तामनिमित्तां निमित्तमायुषः प्र माणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतलिङ्गानुरूपां या मायुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति धीराः यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः इत्युद्देशः तं विस्तरेणानुव्याख्यास्यामः ७

तत्रादित एव वर्णाधिकारः तद्यथा– कृष्णः श्यामः श्यामावदातः अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति यांचापरानुपेक्षमाणो विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्त ज्ज्ञैः नीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति यांश्चापरानुपेक्षमाणो विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य ८

तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे द्वावपि वर्गों मर्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणविभागेन यद्येवं पूर्वपश्चिमविभागेन यद्युत्तराधरवि भागेन यद्यन्तर्बहिर्विभागेन आतुरस्यारिष्टमिति विद्यात् एवमेव वर्णभेदो मु खेऽप्यन्यत्र वर्तमानो मरणाय भवति ६

वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः १०

तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्र प्रशस्तं विद्यात् ११

नवनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च वैकारिकोक्तानां वर्णानाम न्यतमस्य प्रादुर्भावो हीनबलवर्णेन्द्रियेषु लक्षणमायुषः क्षयस्य भवति १२

यच्चान्यदपि किंचिद्वर्णवैकृतमभूतपूर्व सहसोत्पद्येतानिमित्तमेव हीयमान स्यातुरस्य शश्वत् तदरिष्टमिति विद्यात् इति वर्णाधिकारः १३

स्वराधिकारस्तु–हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति यांश्चापरानुपेक्षमाणोऽपि विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां स्वरा वैकारिका भ वन्ति यांश्चापरानुपेक्षमाणोऽपि विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति १४

तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः स्वरानेकत्वमेकस्य चाने कत्वमप्रशस्तम् इति स्वराधिकारः १५

इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति १६

भवन्ति चात्र-

यस्य वैकारिको वर्णः शरीर उपपद्यते अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः १७ नीलं वा यदि वा श्यावं ताम्रं वा यदि वारुणम्मुखार्धमन्यथा वर्णो मुखार्धेऽरिष्टमुच्यते १८

स्नेहो मुखार्धे सुव्यक्तो रौक्ष्यमर्धमुखे भृशम् ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम् १६

तिलकाः पिप्लवो व्यङ्गा राजयश्च पृथग्विधाः आतुरस्याशु जायन्ते मुखे प्राणान् मुमुक्षतः २०

पुष्पाणि नवदन्तेषु पङ्को वा दन्तसंश्रितः चूर्णको वाऽपि दन्तेषु लक्षणं मरणस्य तत् २१

ओष्ठयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीषयोः नरखेष्वपि च वैवर्यमेतत् क्षीणबलेऽन्तकृत् २२

यस्य नोलावुभावोष्ठो पक्वजाम्बवसत्रिभौ मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम् २३

एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः सहसोत्पद्यते जन्तोर्हीयमानस्य नास्ति सः २४

यच्चान्यदपि किञ्चित् स्याद्वैकृतं स्वरवर्णयोः बलमांसविहीनस्य तत् सर्वं मरणोदयम् २५

तत्र श्लोकः

इति वर्णस्वरावुक्तौ लक्षणार्थं मुमूर्षताम् यस्तौ सम्यग्विजानाति नायुर्ज्ञाने स मुह्यति २६

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमोऽध्यायः १

Leave A Comment