Charak Samhita Indriya Sthana Adil Farooq Malik  

सद्योमरणीयमिन्द्रिय अध्यायः– Charak Samhita

Photo by Arulonline on Pexels.com

Indriya Sthana – Chapter 10

अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

सद्यस्तितिक्षतः प्राणाल्लक्षणानि पृथक् पृथक् अग्निवेश प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति ३

वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम् ४

पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम् वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम् ५

भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः
तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम् ६

क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन् उभे मन्ये समे यस्य सद्यो मुष्णाति जिवितम् ७

अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिलः कृशस्य वंक्षक्षौ गृह्णन् सद्यो मुष्णाति जीवितम् ८

वितत्य पर्शकाग्राणि गृहीत्वोरश्च मारुतः स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम् ६

हृदयं च गुदं चोभे गृहीत्वा मारुतो बली दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम् १०

वंक्षणं च गुदं चोभे गृहीत्वा मारुतो बलीश्वासं संजनयञ्जन्तोः सद्यो मुष्णाति जीवितम् ११

नाभिं मूत्रं वस्तिशीर्षं पुरीषं चापि मारुतः प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम् १२

भिद्येते वंक्षणौ यस्य वातशूलैः समन्ततः भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः १३

प्लुतं मारुतेनेह शरीरं यस्य केवलम् भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम् १४

शरीरं शोफितं यस्य वाताशोफेन देहिनः
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम् १५

आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः १६

पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम् १७

पक्वाशयमधिष्ठाय हत्वा संज्ञां च मारुतः
कण्ठे घुर्घरकं कृत्वा सद्यो हरति जीवितम् १८

दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्
सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः १६

तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः
स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः २०

तत्र श्लोकः-

एतानि खलु लिङ्गानि यः सम्यगवबुध्यते स जीवितं च मर्त्यानां मरणं चावबुध्यते २१

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने सद्योमरणीयमिन्द्रियं नाम दशमोऽध्यायः १०

Leave A Comment