Charak Samhita Sharira Sthana Adil Farooq Malik  

अतुल्यगोत्रीयं शारीर अध्यायः– Charak Samhita

Photo by Arulonline on Pexels.com

Sharira Sthana – Chapter 1

अथातोऽतुल्यगोत्रीयं शारीरं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

योनिप्रदोषान्मनसोऽभितापाच्छुक्रासृगाहारविहारदोषात् कालयोगाद्बलसंक्षयाच्च गर्भं चिराद्विन्दति सप्रजाऽपि ७

अतुल्यगोत्रस्य रजःक्षयान्ते रहोविसृष्टं मिथुनीकृतस्य किं स्याच्चतुष्पात्प्रभवं च षड्भ्यो यत् स्त्रीषु गर्भत्वमुपैति पुंसः ३

शुक्रं तदस्य प्रवदन्ति धीरा यद्धीयते गर्भसमुद्भवाय वाय्वग्निभूम्यब्गुणपादवत्तत् षड्भ्यो रसेभ्यः प्रभवश्च तस्य ४

संपूर्णदेहः समये सुखं च गर्भः कथं केन च जायते स्त्री गर्भं चिराद्विन्दति सप्रजाऽपि भूत्वाऽथवा नश्यति केन गर्भः ५

शुक्रासृगात्माशयकालसंपद् यस्योपचारश्च हितैस्तथाऽन्नैः गर्भश्च काले च सुखी सुखं च संजायते संपरिपूर्णदेहः ६

असृङ्निरुद्धं पवनेन नार्या गर्भं व्यवस्यन्त्यबुधाः कदाचित् गर्भस्य रूपं हि करोति तस्यास्तदसृगस्रावि विवर्धमानम् ८

तदग्निसूर्यश्रमशोकरोगैरुष्णान्नपानैरथवा प्रवृत्तम् दृष्ट्वाऽसृगेकं न च गर्भसंज्ञं केचिन्नरा भूतहृतं वदन्ति ९

जोशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम् गर्भं हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोजः १०

कन्यां सुतं वा सहितौ पृथग्वा सुतौ सुते वा तनयान् बहून् वाकस्मात् प्रसूते सुचिरेण गर्भमेकोऽभिवृद्धिं च यमेऽभ्युपैति ११

रक्तेन कन्यामधिकेन पुत्रं शुक्रेण तेन द्विविधीकृतेन बीजेन कन्यां च सुतं च सूते यथास्वबीजान्यतराधिकेन १२

शुक्राधिकं द्वैधमुपैति बीजं यस्याः सुतौ सा सहित प्रसू रक्ताधिकं वा यदि भेदमेति द्विधा सुते सा सहिते प्रसूते १३

भिनत्ति यावद्बहुधा प्रपन्नः शुक्रार्तवं वायुरतिप्रवृद्धः तावन्त्यपत्यानि यथाविभागं कर्मात्मकान्यस्ववशात् प्रसूते १४

आहारमाप्नोति यदा न गर्भः शोषं समाप्नोति परिस्रुतिं वा तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात् १५

कर्मात्मकत्वाद्विषमांशभेदाच्छुक्रासृजोर्वृद्धिमुपैति कुक्षौ एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः १६

कस्माविरेताः पवनेन्द्रियो वा संस्कारवाही नरनारिषण्डौ
वक्री तथेभिरतिः कथं वा संजायते वातिकषण्डको वा १७

बीजात् समांशादुपतप्तबीजात् स्त्रीपुंसलिङ्गी भवति द्विरेताः शुक्राशयं गर्भगतस्य हत्वा करोति वायुः पवनेन्द्रियत्वम् १८

शुक्राशयद्वारविघट्टनेन संस्कारवाहं कुरुतेऽनिलश्च मन्दाल्पबीजावबलावहर्षो क्लीबौ च हेतुर्विकृतिद्वयस्य १६

मातुर्व्यवायप्रतिघेन वक्री स्याद्वीजदौर्बल्यतया पितश्च ईर्ष्याभिभूतावपि मन्दहर्षावीर्ष्यारतेरेव वदन्ति हेतुम् २०

वाय्वग्निदोषाद्दूषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः इत्येवमष्टौ विकृतिप्रकाराः कर्मात्मकानामुपलक्षणीयाः २१

गर्भस्य सद्योऽनुगतस्य कुक्षौ स्त्रीपुंनपुंसामुदरस्थितानाम् किं लक्षणं कारणमिष्यते किं सरूपतां येन च यात्यपत्यम् २२

निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहर्षो हृदये व्यथा च तृप्तिश्च बीजग्रहणं च योन्यां गर्भस्य सद्योऽनुगतस्य लिङ्गम् २३

सव्याङ्गचेष्टा पुरुषार्थिनीं स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा
सव्यात्तगर्भा न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते २४

पुत्रं त्वतो लिङ्गविपर्ययेण व्यामिश्रलिङ्गा प्रकृतिं तृतीयाम् गर्भो मनः स्त्रिया यं जन्तुं व्रजेत्तत्सदृशं प्रसूते २५

गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसंभवानि आहारजान्यात्मकृतानि चैव सर्वस्य सर्वाणि भवन्ति देहे २६

तेषां विशेषाद्बलवन्ति यानि भवन्ति मातापितृकर्मजानि
तानि व्यवस्येत् सदृशत्वहेतुं सत्त्वं यथानूकमपिव्यवस्येत् २७

कस्मात् प्रजां स्त्री विकृतां प्रसूते हीनाधिकाङ्गीं विकलेन्द्रियां वा देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च २८

बीजात्मकर्माशयकालदोषैर्मातस्तथाऽऽहारविहारदोषैः कुर्वन्ति दोषा विविधानि दुष्टाः संस्थानवर्णेन्द्रियवैकृतानि २६

वर्षासु काष्ठाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य यथैव कुर्युर्विकृतिं तथैव गर्भस्य कुक्षौ नियतस्य दोषाः ३०

भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात् कर्मात्मकत्वान्न तु तस्य दृश्यं दिव्यं विना दर्शनमस्ति रूपम् ३१

स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स एव ३२

रसात्ममातापितृसंभवानि भूतानि विद्याद्दश षट् च देहे चत्वारि तत्रात्मनि संश्रितानि स्थितस्तथाऽऽत्मा च चतुर्षु तेषु ३३

भूतानि मातापितृसंभवानि रजश्च शुक्रं च वदन्ति गर्भे आप्याय्यते शुक्रमसृक् च भूतैर्येस्तानि भूतानि रसोद्भवानि ३४

भूतानि चत्वारि तु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम् स बीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति ३५

रूपाद्धि रूपप्रभवः प्रसिद्धः कर्मात्मकानां मनसो मनस्तः भवन्ति ये त्वाकृतिबुद्धिभेदा रजस्तमस्तत्र च कर्म हेतुः ३६

अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचित्र वियुक्तरूपः न कर्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः ३७

रजस्तमोभ्यां हि मनोऽनुबद्धं ज्ञानं विना तत्र हि सर्वदोषाः गतिप्रवृत्त्योस्तु निमित्तमुक्तं मनः सदोषं बलवच्च कर्म ३८

रोगाः कुतः संशमनं किमेषां हर्षस्य शोकस्य च किं निमित्तम् शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः ३६

प्रज्ञापराधो विषमास्तथाऽर्था हेतुस्तृतीयः परिणामकालः सर्वामयानां त्रिविधा च शान्तिर्ज्ञानार्थकालाः समयोगयुक्ताः
धर्म्याः क्रिया हर्षनिमित्तमुक्तास्ततोऽन्यथा शोकवशं नयन्ति शरीरसत्त्वप्रभवास्तु रोगास्तयोरवृत्त्या न भवन्ति भूयः ४१

रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सोऽस्ति कश्चित् तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च ४२

सत्याश्रये वा द्विविधे यथोक्ते पूर्वं गदेभ्यः प्रतिकर्म नित्यम् जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम् ४३

दैवं पुरा यत् कृतमुच्यते तत् तत् पौरुषं यत्त्विह कर्म दृष्टमप्रवृत्तिहेतुर्विषमः स दृष्टो निवृत्तिहेतुर्हि समः स एव ४४

हैमन्तिकं दोषचयं वसन्ते प्रवाहयन् ग्रैष्मिकमभ्रकाले घनात्यये वार्षिकमाशु सम्यक् प्राप्रोति रोगानृतुजान जातु ४५

नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः
दाता समः सत्यपरः क्षमावानाप्रोपसेवी च भवत्यरोगः ४६

मतिर्वचः कर्म सुखानुबन्धं सत्त्वं विधेयं विशदा च बुद्धिः ज्ञानं तपस्तत्परता च योगे सस्यास्ति तं नानुपतन्ति रोगाः ४७

तत्र श्लोकः-

इहाग्निवेशस्य महार्थयुक्तं षट्त्रिंशकं प्रश्नगणं महर्षिः
अतुल्यगोत्रे भगवान् यथावन्निर्णीतवान् ज्ञानविवर्धनार्थम् ४८

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थानेऽतुल्यगोत्रीयं शारीरं नाम द्वितीयोऽध्यायः २

Leave A Comment