Charak Samhita Indriya Sthana Adil Farooq Malik  

अवाक्शिरसीयमिन्द्रिय अध्यायः– Charak Samhita

Photo by Arulonline on Pexels.com

Indriya Sthana – Chapter 8

अथातोऽवाक्शिरसीयमिन्द्रियं व्याख्यास्यामः१

इति ह स्माह भगवानात्रेयः २

वाक्शिरा वा जिह्मा वा यस्य वा विशिरा भवेत् जन्तो रूपप्रतिच्छाया नैनमिच्छेच्चिकित्सितुम् ३

जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत् ४

यस्य शूनानि वर्त्मानि न समायान्ति शुष्यतः चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव सः ५

भ्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्तकान् बहून्
अपूर्वानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत् ६

त्र्यहमेतेन जीवन्ति लक्षणेनातुरा नराः अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ७

आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते अनातुरो वा रोगी वा षड्रात्रं नातिवर्तते ८

यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभाः उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ९

ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति अशूनः शूनसंकाशः प्रत्याख्येयः स जानता १०

अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृताजिह्मा वा परिशुष्का वा नासिका न स जीवति ११

मुखं शब्दश्रवावोष्ठौ शुक्लश्यावातिलोहितौ विकृत्या यस्य वा नीलौ न स रोगाद्विमुच्यते १२

अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः विकृत्या न स रोगं तं विहायारोग्यमश्नुते १३

स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम् श्यावा शुष्काऽथवा शूना प्रेतजिह्वा विसर्पिणी १४

दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् १५

हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम् भवत्यायुःक्षये क्रूरमथवाऽपि भवेन्मृदु १६

घट्टयञ्जानुना जानु पादावुद्यम्य पातयन् योऽपास्यति मुहुर्वक्रमातुरो न स जीवति १७

दन्तैश्छिन्दन्नखाग्राणि नवैच्छिन्दञ्छिरोरुहान् काष्ठेन भूमिं विलिखन्न रोगात् परिमुच्यते १८

दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन् विजानाति न चेद्दखं न स रोगाद्विमुच्यते १६

मुहुर्हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति २०

यैर्विन्दति पुरा भावैः समेतैः परमां रतिम् तैरेवारममाणस्य ग्लास्त्रोर्मरणमादिशेत् २१

न बिभर्ति शिरो ग्रीवा न पृष्ठं भारमात्मनः न हनू पिण्डमास्यस्थमातुरस्य मुमूर्षतः २२

सहसा ज्वरसंतापस्तृष्णा मूर्च्छा बलक्षयः विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते २३

गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम् लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम् २४

नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च आयुष्यन्तं गते जन्तोर्बलं च परिहीयते २५

शिरो विक्षिपते कृच्छान्मुञ्चयित्वा प्रपाणिकौ ललाटनुप्रतस्वेदो मुमूर्षुश्च्युतबन्धनः २६

तत्र श्लोकः-

इमानि लिङ्गानि नरेषु बुद्धिमान् विभावयेतावहितो मुमूर्षुषु क्षणेन भूत्वा ह्युपयान्ति कानिचिन्नचाफलं लिङ्गमिहास्ति किञ्चन २७

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽवाक्शिरसीयमिन्द्रियं नामाष्टमोऽध्यायः ८

Leave A Comment