शरीरविचय शारीरं अध्यायः– Charak Samhita

Photo by Arulonline on Pexels.com

Indriya Sthana – Chapter 6

प्रातः शरीरविचयं शारीरं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

शरीरविचयः शरीरोपकारार्थमिष्यते
ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः ३

तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोग
यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति वैषम्यगमनं हि पुनर्धातूनां वृद्धिहासगमनमकात्स्र्त्स्न्येन प्रकृत्या च ४

यौगपद्येन तु विरोधिनां धातूनां वृद्धिहासौ भवतः यद्धि यस्य धातोर्वृद्धिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं संपद्यते ५

तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्यूनातिरिक्तानां धातूनां साम्य करं भवति अधिकमपकर्षति न्यूनमाप्याययति ६

एतादेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावद्धातूनां साम्यं स्यात्स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान् एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्वि परीतकरसमाज्ञतया चेष्टया सममिच्छन्ति कर्तुम् ७

देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः सम्यक् सर्वातियोगसन्धारणम् असन्धारणमुदीनां च गतिमतां साहसानां च वर्जनं स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते ८

धातवः पुनः शारीराः समानगुणैः समानगुणभूयिष्ठैर्वाऽप्याहारविकारैरभ्य स्यमानैर्वृद्धिं प्राप्नुवन्ति ह्रासं तुविपरीतगुणैर्विपरीतगुणभूयिष्ठैर्वाऽप्याहारैर भ्यस्यमानैः ६

तत्रेमे शरीरधातुगुणाः संख्यासामर्थ्यकराः तद्यथा- गुरुलघुशीतोष्णस्त्रिग्ध रूक्षमन्दतीक्ष्ण स्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवाः तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते लघवश्च हसन्ति लघवस्तु लघुभिराप्याय्यन्ते गुरवश्च हसन्ति एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृद्धिः विपर्ययावासः तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्यः शरीरधातुभ्यः तथा लोहितं लोहितेन मेदो मेदसा वसा वसया अस्थि तरुणास्थना मज्जा मज्जा शुक्रं शुक्रेण गर्भस्त्वामगर्भेण १०

यत्र त्वेवं लक्षणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात् सन्निहितानां वाऽप्ययुक्तत्वानोपयोगो घृणित्वादन्यस्माद्वा कारणात् स च धातुरभिवर्धयितव्यः स्यात् तस्य ये समानगुणाः स्युराहारविकारा असेव्याश्च तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविकाराणामुपयोगः स्यात् तद्यथा– शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतसमाख्यातानां चो परेषां द्रव्याणां मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणोपक्लेदिनां पुरीषक्षये कुल्माषमाषकुष्कुण्डाजमध्ययवशाकधान्याम्लानां वातक्षये क टुकतिक्तकषायरूक्षलघुशीतानां पित्तक्षयेऽम्ललवणकटुकक्षारोष्णतीक्ष्णानां श्लेष्मक्षये स्निग्धगुरुमधुरसान्द्रपिच्छिलानां द्रव्याणाम् कर्मापि यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम् एवमन्येषामपि शरीरधातूनां सामान्यविपर्ययाभ्यां वृद्धिहासौ यथाकालं
इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृद्धिहासकराणि व्याख्यातानि भवन्ति ११
कार्त्स्न्येन शरीरवृद्धिकरास्त्विमे भावा भवन्ति तद्यथा– कालयोगः स्वभावसंसिद्धिः आहारसौष्ठिवम् अविघातश्चेति १२

बलवृद्धिकरास्त्विमे भावा भवन्ति तद्यथा बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च सुखश्च कालयोगः बी जक्षेत्रगुणसंपच्च प्रहारसंपञ्च शरीरसंपञ्च सात्म्यसंपच्च सत्त्वसंपञ्च स्वभा वसंसिद्धिश्च यौवनं च कर्म च संहर्षश्चेति १३

हारपरिणामकरास्त्विमे भावा भवन्ति तद्यथा- ऊष्मा वायुः क्लेदः स्नेहः कालः समयोगश्चेति १४

तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति तद्यथा-ऊष्मा पचति वायुरपकर्षति क्लेदः शैथिल्यमापादयति स्नेहो मार्दवं जनयति कालः पर्याप्तिमभिनिर्वर्तयति समयोगस्त्वेषां परिणामधातुसाम्य करः संपद्यते १५

परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः विरु द्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम् १६३

शरीरगुणाः पुनर्द्विविधाः संग्रहेण मलभूताः प्रसादभूताश्च तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः तद्यथा-शरीरच्छिद्रेषूपदेहाः पृथग्जन्मानो बहिर्मुखाः परिपक्वाश्च धातवः प्र कुपिताश्च वातपित्तश्लेष्माणः ये चान्येऽपि केचिच्छरीरे तिष्ठन्तो भावाः शरी रस्योपघातायोपपद्यन्ते सर्वांस्तान्मले संचमहे इतरांस्तु प्रसादे गुर्वादींश्च द्र वान्तान् गुणभेदेन रसादींश्च शुक्रान्तान् द्रव्यभेदेन १७

तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति दोषस्वभावात् वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि एतावत्येव दुष्टदोषगतिर्यावत् संस्पर्शनाच्छरीरधातूनाम् प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम् तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुद्धिमद्भिरिति १८

भवति चात्र-

शरीरं सर्वथा सर्वं सर्वदा वेद यो भिषक
आयुर्वेदं स कार्त्स्न्येन वेद लोकसुखप्रदम् १६

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच– -श्रुतमेतद्यदुक्तं भगवता शरीरा धिकारे वचः
किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते कुक्षौ कुतो मुखः कथं चान्तर्गतस्ति ष्ठति किमाहारश्च वर्तयति कथं भूतश्च निष्क्रामति कैश्चायमाहारोपचारैर्जातः सद्यो हन्यते कैरव्याधिरभिवर्धते किं चास्य देवादिप्रकोपनिमित्ता विकाराः संभवन्ति आहोस्विन्न किंचास्य कालाकालमृत्य्वोर्भावाभावयोर्भगवानध्य वस्यति किंचास्य परमायुः कानि चास्य परमायुषो निमित्तानीति २०

तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्वसुरात्रेय उवाच — पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षौ यच्चास्य यदा संतिष्ठते ऽङ्गजातम्
विप्रतिवादास्त्वत्र बहुविधाः सूत्रकृतामृषीणां सन्ति सर्वेषां तानपि निबो धोच्यमानान् शिरः पूर्वमभिनिर्वर्तते कुक्षाविति कुमारशिरा भरद्वाजः पश्य ति सर्वेन्द्रियाणां तदधिष्ठानमिति कृत्वा हृदयमिति काङ्कायनो बाह्रीकभि षक चेतनाधिष्ठानत्वात् नाभिरिति भद्रकाप्य आहारागम इति कृत्वा पक्वा शयगुदमिति भद्रशौनकः मारुताधिष्ठानत्वात् हस्तपादमिति बडिशः तत्क रणत्वात् पुरुषस्य इन्द्रियाणीति जनको वैदेहः तान्यस्य बुद्ध्यधिष्ठानानीति कृत्वा परोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः सर्वाङ्गाभिनिर्वृत्तिर्युगपदि ति धन्वन्तरिः तदुपपन्नं सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तत्वाद्धृदयप्रभृतीनाम् सर्वाङ्गानां ह्यस्य हृदयं मूलमधिष्ठानं च केषाञ्चिद्भावानाम् नच तस्मात् पू •र्वाभिनिर्वृत्तिरेषां तस्माद्धृदयप्रभृतीनां सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तिः सर्वे भावा ह्यन्योन्यप्रतिबद्धाः तस्माद्यथाभूतदर्शनं साधु २१

गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः सङ्कुच्याङ्गान्यास्तेऽन्तः कुक्षौ २२

व्यपगतपिपासाबुभुक्षस्तु खलु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्युपत्रे होपस्वेदाभ्यां गर्भाशये सदसद्भूताङ्गावयवः तदनन्तरं ह्यस्य कश्चिल्लोमकू पायनैरुपस्नेहः कश्चिन्नाभिनाड्ययनैः
नाभ्यां ह्यस्य नाडी प्रसक्ता नाड्यां चापरा अपरा चास्य मातुः प्रसक्ता हृदये मातृहृदयं ह्यस्य तामपरामभिसंप्लवते सिराभिः स्यन्दमानाभिः स तस्य रसोबलवर्णकरः संपद्यते स च सर्वरसवानाहारः स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते स्वशरीरपुष्टये स्तन्याय गर्भवृ द्धये च स तेनाहारेणोपष्टब्धः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्यन्तर्गतः २३

स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्त्यावाक्शिरा निष्का मत्यपत्यपथेन एषा प्रकृतिः विकृतिः पुनरतोऽन्यथा परं त्वतः स्वतन्त्रवृत्तिर्भवति २४

तस्याहारोपचारौ जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवतः २५

ताभ्यामेव च विषमसेविताभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरो पितो वातातपाभ्यामप्रतिष्ठितमूलः २६

प्राप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाञ्चादोषप्र कोपानुरूपा देवादिप्रकोपनिमित्ता विकाराः समुपलभ्यन्ते २७

कालाकालमृत्य्वोस्तु खलु भावाभावयोरिदमध्यवसितं नः यः कश्चिन् म्रि यते स काल एव म्रियते न हि कालच्छिद्रमस्ति इत्येके भाषन्ते तच्चासम्यक् न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते कालस्वलक्षणस्वभावात् यो यदा म्रियते स तस्य नियतो मृत्युकालः स सर्वभूतानां स तत्राहुरपरे — य त्यः समक्रियत्वादितिएतदपि चान्यथाऽर्थग्रहणम् न हि कश्चिन्न म्रियत इति समक्रियः कालो ह्यायुषः प्रमाणमधिकृत्योच्यते यस्य चेष्टं यो यदा म्रियते स तस्य मृत्युकाल इति तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति तच्च नोपपद्यते प्रत्यक्षं ह्यकालाहारवचनकर्मणां फ लमनिष्टं विपर्यये चेष्टं प्रत्यक्षतश्चोपलभ्यते खलु कालाकालव्यक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य तद्यथा–कालोऽयमस्य व्याधेराहार स्यौषधस्य प्रतिकर्मणो विसर्गस्य प्रकालो वेति लोकेऽप्येतद्भवति–काले देवो वर्षत्यकाले देवो वर्षति काले शीतमकाले शीतं काले तपत्यकाले तपति काले पुष्पफलमकाले च पुष्पफलमिति तस्मादुभयमस्ति– काले मृत्युरकाले च नैकान्तिकमत्रयदि ह्यकाले मृत्युर्न स्यान्नियतकालप्रमाणमायुः सर्वं स्यात् एवं गते हिता हितज्ञानमकारणं स्यात् प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमाणभूताः सर्वतन्त्रेषु यैरायुष्याण्यनायुष्याणि चोपलभ्यते वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते– नाकाले मृत्युरस्तीति २८

वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले २६

तस्य निमित्तं प्रकृतिगुणात्मसंपत् सात्म्योपसेवनं चेति ३०

तत्र श्लोकाः-

शरीरं यद्यथा तच्च वर्तते क्लिष्टमामयैः यथा क्लेशं विनाशं च याति ये चास्य धातवः ३१

वृद्धिहासौ यथा तेषां क्षीणानामौषधं च यत् देहवृद्धिकरा भावा बलवृद्धिकराश्च ये ३२

परिणामकरा भावा या च तेषां पृथक क्रिया मलाख्याः संप्रसादाख्या धातवः प्रश्न एव च ३३

नवको निर्णयश्चास्य विधिवत् संप्रकाशितः तथ्यः शरीरविचये शारीरे परमर्षिणा ३४

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरविचयशारीरं नाम षष्ठोऽध्यायः ६

Adil Farooq Malik: The Author is An Ayurveda Scholar. If you find the blogs/articles informative : do share it and if you have any query, leave it in the contact us tab. Thank You