Chapter 18 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charak Samhita – त्रिशोथीयमध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 18 {रोग चतुष्क } {त्रिशोथीयमध्याय}

अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः ते पुनर्द्विविधा निजागन्तु भेदेन॥ ३

तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधन पीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलता गुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्त विषाणनवनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजा यन्ते ४

ते पुनर्यथास्वं हेतुव्यञ्जनेरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः बन्ध मन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते ५

निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथा वत्प्रयोगान्मिथ्यासंसर्जनाद्रा छर्द्यलसकविसूचिकाश्वासकासातिसारशोष पाण्डरोगोदरज्वरप्रदरभगन्दराशविकारातिकशनैर्वा कुष्ठकण्डूपिडकादि भिव छर्दिक्षवथूद्गारशुक्रवातमूरपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वक र्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्य मन्दकविरूढनव शूकशमीधान्यानूपौदकपिशितोपयोगान्मृत्पङ्कलोष्टभक्षणा ल्लवणातिर्भक्षणाद्गर्भसंपीडनादामगर्भप्रपतनात् प्रजातानां च मिथ्योपचा रादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति इत्युक्तः सामान्यो हेतुः ६

अयं त्वत्र विशेषः शीतरूदलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः प्रकुपितस्त्वांसशोणितादीन्यभिभूय शोफं जनयति स क्षिप्रोत्थान प्रमो भवति श्यामारुणवर्णः प्रकृतिवर्णो वा चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपिलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते संकुच्यत आयम्यत इवेति वातशोथः १

उष्णतीदणकटुकचारलवणाम्लजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्गांसशोणितान्यभिभूय शोथं जनयति स क्षिप्रोत्थानप्रशमो भवति कृष्ण पीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा उष्यते दूयते धूप्यते ऊ ष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत इति पित्तशोथः २

गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामदिभिश्च श्लेष्मा प्रकुपितस्त्ववांसशो खितादीन्यभिभूय शोथं जनयति स कृच्छ्रोत्थान भवति पाण्डवेताव भासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथः ३

यथास्वकारणाकृतिसंसर्गाविदोषजास्त्रयः शोथा भवन्ति यथास्वकार – •णाकृतिसन्निपातात् सानिपातिक एकः एवं सप्तविधो भेदः ७

प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टवि धश्च उपलभ्यते पुनश्चैक एवोत्सेधसामान्यात् ८

भवन्ति चात्र-

शूयन्ते यस्य गात्राणि स्वपन्तीव रुजन्ति च पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत् ६

यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः १०

यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते स्विद्यति क्लिद्यते गन्धी स पैत्तः श्वयथुः स्मृतः ११

यः पीतनेत्रवक्त्रत्वक पूर्व मध्यात् प्रशूयते तनुत्वक् चातिसारी च पित्तशोथः च उच्यते १२

शीतः सक्तगतिर्यस्तु कण्डूमान् पाण्डरेव च निपीडितो नोन्नमति श्वयथुः सकफात्मकः १३

यस्य शस्त्रकुशच्छिन्नाच्छोणितं न प्रवर्तते कृच्छ्रेण पिच्छा स्रवति स चापि कफसंभवः १४

निदानाकृतिसंसर्गाच्छ्वयथुः स्याविदोषजः सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः १५०

यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत् जन्तोः स च सुकष्टः स्यात् प्रसृतः स्त्रीमुखाच्च यः १६

यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः १७

छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसंग्रहः १८

यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते आशु संजनयेच्छोथं जायतेऽस्योपजिह्निका १६

यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते शु संजनयेच्छोफं करोति गलशुण्डिकाम् २०

यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते शनैः संजनयेच्छोफं गलगण्डोऽस्य जायते २१

यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः शु संजनयेच्छोफं जायतेऽस्य गलग्रहः २२

यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति शोफं सरागं जनयेद्विसर्पस्तस्य जायते २३

यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते शोथं सरागं जनयेत् पिडका तस्य जायते २४

यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते

यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते श्वयथुः शङ्खको नाम दारुणस्तस्य जायते २६

यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते २७

वातः प्लीहानमुद्धय कुपितो यस्य तिष्ठति शनैः परिकुदन् पार्श्व प्लीहा तस्याभिवर्धते २८

तस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते शोफं सशूलं जनयन् गुल्मस्तस्योपजायते २६

यस्य वायुः प्रकुपितः शोफशूलकरश्चरन् वङ्गणाद्वृषणौ याति वृद्धिस्तस्योपजायते ३०

यस्य वातः प्रकुपितस्त्वङ्गांसान्तरमाश्रितः शोथं संजनयेत् कुक्षावुदरं तस्य जायते ३१

यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते ३२

रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसंग्रहे ३३

वातपित्तकफा यस्य युगपत् कुपितास्त्रयः जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः ३४

जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत् ३५

त्रिरात्रं प्रमं तस्य जन्तोर्भवति जीवितम् कुशलेन त्वनुक्रान्तः क्षिप्रं संपद्यते सुखी ३६

सन्ति ह्येवंविधा रोगाः साध्या दारुणसंमताः ये हन्युरनुपक्रान्ता मिथ्याचारेन वा पुनः ३७

साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसंमताः यत्वायत्तकृतं येषु कर्म सिध्यत्यसंशयम् ३८

असाध्याश्चापरे सन्ति व्याधयो याप्यसंज्ञिताः सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत् ३६

सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत् ४०

साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः ४१

त एवापरिसंख्येया भिद्यमाना भवन्ति हि रुजावर्णसमुत्थानसंस्थाननामभिः ४२

व्यवस्थाकरणं तेषां यथास्थूलेषु संग्रहः तथा प्रकृतिसामान्यं विकारेषूपदिश्यते ४३

विकारनामाकुशलो न जिहीयात् कदाचन न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ४४

स एव कुपितो दोषः समुत्थानविशेषतः स्थानान्तरगतश्चैव जनयत्यामयान् बहून् ४५

तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत् ४६

यो ह्येतत्रितयं ज्ञात्वा कर्माण्यारभते भिषक् ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति ४७

नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः ४८

उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा समो मोक्षो गतिमतां वायोः कर्माविकारजम् ४६

दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् प्रभा प्रसादो मेधा च पित्तकर्माविकारजम् ५०

स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम् क्षमा धृतिरलोभश्च कफकर्माविकारजम् ५१

वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम् ५२

दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम् दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते ५३

तत्र श्लोकाः-

संख्यां निमित्तं रूपाणि शोथानां साध्यतां न च तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान् ५४

विधिभेदं विकाराणां त्रिविधं बोध्यसंग्रहम् प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु ५५

वीतमोहरजोदोषलोभमानमदस्पृहः व्याख्यातवांस्त्रिशोथीये शोगाध्याये पुनर्वसुः ५६

एत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयो नामाष्टादशोऽध्यायः १८

Leave A Comment