Chapter 11 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charak Samhita –त्रैषणीयमध्याय

Photo by Pixabay on Pexels.com

Sutra Sthana – Chapter 11 { निर्देश चतुष्क } {स्तित्रैषणीयमध्याय}

अथातस्तित्रैषणीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति तद्यथा– प्रारोषणा धनैषणा परलोकैषणेति ३

सां तु खल्वेषणानां प्रारोषणां तावत् पूर्वतरमापद्येत कस्मात् प्राणपरित्यागे हि सर्वत्यागः तस्यानुपालनं–स्वस्थस्य स्वस्थवृत्तानुवृत्तिः आतुरस्यविकारप्रशमनेऽप्र मादः तदुभयमेतदुक्तं वक्ष्यते च तद्यथोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घ मायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति ४

अथ द्वितीयां धनैषणामापद्येत प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति न ह्यतः पापात् पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः तस्मादुपकरणानि पर्येष्टं तत्रोपकरणोपायाननुव्याख्यास्यामः तद्यथा- कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि यानि चान्यान्यपि सतामविगर्हि तानि कर्माणि वृतिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं तथा कुर्वन् दीर्घजी वितं जीवत्यनवमतः पुरुषो भवति इति द्वितीया धनैषणा व्याख्याता भवति ५

अथ तृतीयां परलोकैषणामापद्येत संशयश्चात्र कथं भविष्याम इतिश्च्युता नवेति कुतः पुनः संशय इति उच्य – ते– सन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति श्रुतिभेदाञ्च- मातरं पितरं चैके मन्यन्ते जन्मकारणम्

स्वभावं परनिर्माणं यदृच्छां चापरे जनाः इति श्रतः संशयः — किं नु खल्वस्ति पुनर्भवो न वेति ६

तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च कस्मात् प्रत्यक्षं ह्यल्पम् अल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपल भ्यते यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते तान्येव सन्ति चाप्रत्यक्षाणि ७

सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्यान्मनोन वस्थानात् समानाभिहारादभिभवादतिसौदम्याञ्च प्रत्यक्षानुपलब्धिः तस्मा परीक्षितमेतदुच्यते प्रत्यक्षमेवास्ति नान्यदस्तीति ८

श्रुतयश्चेता न कारणं युक्तिविरोधात् आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि संचरेत द्विविधं संचरेदात्मा सर्वो वाऽवयवेन वा

सर्वश्चेत् संचरेन्मातुः पितुर्वा मरणं भवेत् निरन्तरं नावयवः कश्चित्सूक्ष्मस्य चात्मनः १०

बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा ११

विद्यात् स्वाभाविकं षराणां धातुनां यत् स्वलक्षणम् संयोगे च वियोगे च तेषां कर्मैव कारणम् १२

अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः पर आत्मा स चेद्धेतुरिष्टोऽस्तु परनिर्मितिः १३

न परीक्षा न परीक्ष्यं न कर्ता कारणं न च न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च १४

नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः पातकेभ्यः परं चैतत् पातकं नास्तिकग्रहः १५

तस्मान्मतिं विमुच्यताममार्गप्रसृतां बुधः सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम् १६

द्विविधमेव खलु सर्वं सच्चासञ्च तस्य चतुर्विधा परीक्षा प्राप्तोपदेशः प्रत्य क्षम् अनुमानं युक्तिश्चेति १७

आप्तास्तावत्-

रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये
येषां त्रिकालममलं ज्ञानमव्याहतं सदा १८

ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम् सत्यं वक्ष्यन्ति ते तस्मादसत्यं नीरजस्तमा १६

आत्मेन्द्रियमनोर्थानां सन्निकर्षात प्रवर्तते व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते २०

प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात् २१

एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम् दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः २२

जलकर्षणबीजर्तुसंयोगात् सस्यसंभवः युक्तिः षड्धातुसंयोगाद्गर्भाणां संभवस्तथा २३

मथ्यमन्थनमन्थानसंयोगादग्निसंभवः युक्तियुक्ता चतुष्पादसंपद्व्याधिनिबर्हणी २४

बुद्धिः पश्यति या भावान् बहुकारणयोगजान् युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया २५

एषा परीक्षा नास्त्यन्या यया सर्व परीक्ष्यते परीक्ष्यं सदसञ्चैवं तया चास्ति पुनर्भवः २६

तत्राप्तागमस्तावद्वेदः यश्चान्योऽपिकश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः स चाऽऽप्तागमः आतागमादुपलभ्यते दानतपोयज्ञसत्याहिंसाब्रह्मचर्याण्यभ्युदयनिःश्रेयसकराणीति २७

न चानतिवृत्तसत्त्वदोषाणामदोषैरनुपुनर्भवो धर्मद्वारेषूपदिश्यते २८

धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरेराप्तैः कर्मविद्भिरनु पहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिर्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम् २६

प्रत्यक्षमपि चोपलभ्यते– मातापित्रोर्विसदृशान्यपत्यानि तुल्यसंभवानां व र्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः प्रवरावरकुलजन्म दास्यैश्वर्यं सुखासु खमायुः आयुषो वैषम्यम् इह कृतस्यावाप्तिः अशिक्षितानां च रुदितस्तनपा नहासत्रासादीनां प्रवृत्तिः लक्षणोत्पत्तिः कर्मसादृश्ये फलविशेषः मेधा क्व चित् क्वचित् कर्मण्यमेधा जातिस्मरणम् इहागमनमितश्च्युतानामिति समदर्शने प्रियाप्रियत्वम् ३०

अत एवानुमीयते यत् स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैवसंज्ञ कमानुबन्धिकं कर्म तस्यैतत् फलम् इतश्चान्यद्भविष्यतीति फलाद्वीजमनुमी यते फलं च बिजात् ३१

युक्तिश्चैषा-षड्धातुसमुदयाद्गर्भजन्म कर्तृकरणसंयोगात् क्रिया कृतस्य कर्म णः फलं नाकृतस्य नाङ्कुरोत्पत्तिरबीजात् कर्मसदृशं फलं नान्यस्माद्वीजाद न्यस्योत्पत्तिः इति युक्तिः ३२

एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत तद्यथा गुरुशुश्रूषाया मध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दा नेऽनभिध्यायां तपस्यनसूयायां देहवाङ्गानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोर्थ बुद्ध्यात्मपरीक्षायां मनः समाधाविति यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं तथा कुर्वनिह चैव यशो लभते प्रेत्य च स्वर्गम् इति तृतीया प्रलोकैषणा व्याख्याता भवति ३३

अथ खलु त्रय उपस्तम्भाः त्रिविधं बलं त्रीण्यायतनानि त्रयो रोगाः त्रयो रो गमार्गाः त्रिविधा भिषजः त्रिविधमौषधमिति ३४

त्रय उपस्तम्भा इति–आहारः स्वप्नो ब्रह्मचर्यमिति एभिस्त्रिभिर्युक्तियुक्तैरुप स्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुः संस्कारात् संस्कारमहितमनुपसेवमानस्य य इहैवोपदेच्यते ३५

त्रिविधं बलमिति सहसं कालजं युक्तिकृतं च सहजं यच्छरीरसत्त्वयोः प्राकृतं कालकृतमृतुविधागजं वयःकृतं च युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम् ३६

त्रीण्यायतनानीति– अर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः सर्वशोऽदर्शनमयोगः – तिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्टबीभत्सनविकृतवित्रासनादिरूपदर्शनं मिथ्यायोगः तथाऽतिमात्रस्तनितपटहोत्कुष्टादीनां शब्दानामतिमात्रं श्रवणम तियोगः सर्वशोऽश्रवणमयोगः परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्र वणं मिथ्यायोगः तथाऽतितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्रं घ्राणमति योगः सर्वशोऽघ्राणमयोगः पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः तथा रसानामत्यादानमतियोगः सर्वसोऽनादानमयोगः मिथ्या योगो राशिवर्ज्येष्वाहारविधिविशेषायतनेषूपदेच्यते तथाऽतिशीतोष्णानां स्पृश्यानां स्त्रानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः सर्वशोऽनुपसेव – नमयोगः स्नानादीनां शीतोष्णादीनां च स्पृश्यानामनानुपूर्व्यापसेवनं विषम स्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः ३७

तत्रैकं स्पर्नमिन्द्रियाणामिन्द्रियव्यापकं चेतः समवाय स्पर्शनव्याप्तेर्व्याप कमपि च चेतः तस्मात् सर्वेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः सोऽयमनुपशयात् पञ्चविधिस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः सात्म्यार्थो ह्युपशयार्थः ३८

कर्म वाङ्मनः शरीरप्रवृत्तिः तत्र वाङ्मनः शरीरातिप्रवृत्तिरतियोगः सर्वशोऽप्रवृत्तिरयोगः वेगधारणोदीरण विषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसंक्लेशनादिः शारीरो मिथायोगः सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचनादि र्वाङ्गिथ्यायोगः भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसो मिथ्यायोगः ३६

संग्रहेण चातियोगायोगवर्ज कर्म वाङ्मनः शरीरजमहितमनुपदिष्टं यत्तञ्च मि थ्यायोगं विद्यात् ४०

इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत् ४१

शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः स कालः तत्रातिमात्रस्वलक्षणः कालः कालातियोगः हीनस्वलक्षणः कालः काला योगः यथास्वलक्षणविपरीतलक्षणस्तु कालः कालमिथ्यायोगः कालः पुनः परिणाम उच्यते ४२

इत्यसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणां समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ४३

सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् स मुपलभ्येते यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ ४४

त्रयो रोगा इति– निजागन्तुमानसाः

तत्र निजः शारीरदोषसमुत्थः आगन्तुर्भूतविषवाय्वनिसंप्रहारादिसमुत्थः मा नसः पुनरिष्टस्य लाभाल्लाभाच्चानिष्टस्योपजायते ४५

तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानां चोपसेवने प्रयतितव्यं न ह्यन्त रेण लोके त्रयमेतन्मानसं किंचिनिष्पद्यते सुखं वा दुःखं वा तस्मादेतच्चानु ष्ठेयं–तद्विद्यानां चोपसेवने प्रयतितव्यम् आत्मदेशकुलकालबलशक्तिज्ञाने यथावच्चेति ४६

भवति चात्र-

मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम् तद्विद्यासेवा विज्ञानमात्मादीनां च सर्वशः ४७

त्रयो रोगमार्गा इति– शाखा मर्मास्थिसन्धयः कोष्टश्च तत्र शाखा रक्तादयो धातवस्त्वक् च स बाह्यो रोगमार्गः मर्माणि पुनर्बस्ति हृदयमूर्धादीनि अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः स मध्यमो रोगमार्गः कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महानिम्नमामप क्वाशयश्चेति पर्यायशब्देस्तन्त्रे स रोगमार्ग आभ्यन्तरः ४८

तत्र गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्वस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः ज्वरातीसा रच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्च वि सर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः ४६

त्रिविधा भिषज इति- –

भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि ५०

वैद्यभाण्डौषधेः पुस्तैः पल्लवैरवलोकनैः लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः ५१

श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः ५२

प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः जीविताभिसरास्ते स्युर्वेद्यत्वं तेष्ववस्थितम् ५३

त्रिविधमौषधमिति — दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्वावजयश्च

तत्र दैवव्यपाश्रयं– मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवा सस्वस्त्ययनप्रणिपातगमनादि युक्तिव्यपाश्रयं– पुनराहारौषधद्रव्याणां यो जना सत्वावजय: – पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः ५४

शरीरदोषप्रकोपे खलुशरीरमेवाश्रित्य प्रायशास्त्रिविधमौषधमिच्छन्ति- अन्तःपरिमार्जनं बहिः परिमार्जनं शस्त्रप्रणिधानं चेति तत्रान्तःपरिमार्जनं यदन्तः शरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमाष्टिं यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमाष्टिं तद्व हिःपरिमार्जनं शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छ नसीवनैषणक्षारजलौकसश्चेति ५५

भवन्ति चात्र-

प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा ५६

बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः ५७

अर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः ५८

न मूढो लभते संज्ञां तावद्यावन पीड्यते पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे ५६

अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति ६०

तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम् कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम् ६१

स त्रातारमनासाद्य बालस्त्यजति जीवितम् गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा ६२

तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः ६३

तत्र श्लोकौ–

एषणाः समुपस्तम्भा बलं कारणमामयाः तिस्त्रेषणीये मार्गाश्च भिषजो भेषजानि च ६४

त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता भावा भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम् ६५

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रषणीयो नामैकादशोऽध्यायः ११

Leave A Comment