Chapter 10 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charak Samhita – महाचतुष्पादमध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 10 { निर्देश चतुष्क } {महाचतुष्पादमध्याय}

अथातो महाचतुष्पादमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते यदुक्तं पूर्वाध्याये षोडश गुणमिति तद्भेषजं युक्तियुक्तमलमारोग्यायेति भगवान् पुनर्वसुरात्रेयः ३

नेति मैत्रेयः किं कारणं दृश्यन्ते ह्यातुराः केचिदुपकरणवन्तश्च परिचारकसं पन्नाश्चात्मवन्तश्च कुशलैश्च भिषम्भिरनुष्ठिताः समुत्तिष्ठमानाः तथायुक्ताश्चापरे म्रियमाणाः तस्माद्भेषजमकिंचित्करं भवति तद्यथा श्वभ्रे सरसि च प्रसिक्त मल्पमुदकं नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्ण इति त थाऽपरे दृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्च भिषभिरनु ष्ठिताः समुत्तिष्ठमानाः तथायुक्ता म्रियमाणाश्चापरे यतश्च प्रतिकुर्वन् सिध्यति प्रतिकुर्वन् म्रियते अप्रतिकुर्वन् सिध्यति अप्रति कुर्वन् म्रियते ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति ४

मैत्रेय मिथ्या चिन्त्यत इत्यात्रेयः किं कारणं ये ह्यातुराः षोडशगुणसमुदिते नानेन भेषजेनोपपद्यमाना म्रियन्त इत्युक्तं तदनुपपनं न हि भेषजसाध्यानां व्याधीनां भेषजमकारणं भवति ये पुनरातुराः केवलाद्भेषजादृते समुत्तिष्ठन्ते न तेषां संपूर्णभेषजोपपादनाय समुत्थानविशेषो नास्ति यथा हि पतितं पुरुषं स्मर्थमुत्थानायोत्थापयन् पुरुषो बलमस्योपादध्यात् स क्षिप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत् तद्वत् संपूर्णभेषजोपलम्भादातुराः ये चातुराः केवलाद्भेषजादपि म्रियन्ते न च सर्व एव ते भेषजोपपन्नाः समुत्तिष्ठेरन् नहि सर्वे व्याधयो भवन्त्युपायसाध्याः न चोपायसाध्यानां व्याधीनामनुपायेन सिद्धिरस्ति न चासाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति न ह्यलं ज्ञानवान् भिषय मूर्षुमातुरमुत्थापयितुं परीक्ष्यकारिणो हि कुशला भवन्ति यथा हि योगज्ञो ऽभ्यासनित्य इष्वासो धनुरादायेषुमस्यन्नातिविप्रकृष्टे महति काये नापराध वान् भवति संपादयति चेष्टकार्यं तथा भिषक् स्वगुणसंपन्न उपकरणवान वीक्ष्य कर्मारभमाणः साध्यरोगमनपराधः संपादयत्येवातुरमारोग्येण तस्मान्न भेषजमभेषजेनाविशिष्टं भवति ५

इदं च नः प्रत्यक्षं यदनातुरेण भेषजेनातुरं चिकित्सामः क्षाममक्षामेण कृशं च दुर्बलमाप्याययामः स्थूलं मेदस्विनमपतर्पयामः शीतेनोष्णाभिभूतमु – पचरामः शीताभिभूतमुष्णेन न्यूनान् धातून पूरयामः व्यतिरिक्तान् ह्रासयामः व्याधीन् मूलविपर्ययेणोपचरन्तः सम्यक् प्रकृतौ स्थापयामः तेषां नस्तथा कुर्वतामयं भेषजसमुदायः कान्ततमो भवति ६

भवन्ति चात्र-

साध्यासाध्यविभागज्ञो ज्ञानपूर्वं चिकित्सकः काले चारभते कर्म यत्तत् साधयति ध्रुवम् ७

अर्थविद्यायशोहानिमुपक्रोशमसंग्रहम् प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत् सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च द्विविधं चाप्यसाध्यं स्याद्याप्यं यच्चानुपक्रमम् ६

साध्यानां त्रिविधश्चाल्पमध्यमोत्कृष्टतां प्रति विकल्पो न त्वसाध्यानां नियतानां विकल्पना १०

हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत् ११

न च कालगुणस्तुल्यो न देशो दुरुपक्रमः गतिरेका नवत्वं च रोगस्योपद्रवो न च १२

दोषश्चैकः समुत्पतौ देहः सर्वोषधक्षमः चतुष्पादोपपत्तिश्च सुखसाध्यस्य लक्षणम् १३

निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले कालप्रकृतिदूष्याणां सामान्येऽन्यतमस्य च १४

गर्भिणी वृद्धबालानां नात्युपद्रवपीडितम् शस्त्रक्षाराम्रिकृत्यानामनवं कृच्छ्रदेशजम् १५

विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम् द्विपथं नातिकालं वा कृच्छ्रसाध्यं द्विदोषजम् १६

शेषत्वादायुषो याप्यमसाध्यं पथ्यसेवया लब्धाल्पसुखमल्पेन हेतुनाऽऽशुप्रवर्तकम् १७

गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम् नित्यानुशायिनं रोगं दीर्घकालमवस्थितम् १८

विद्यादिदोषजं तद्वत् प्रत्याख्येयं त्रिदोषजम् क्रियापथमतिक्रान्तं सर्वमार्गानुसारिणम् १६

श्रौत्सुक्यारतिसंमोहकरमिन्द्रियनाशनम् दुर्बलस्य सुसंवृद्धं व्याधिं सारिष्टमेव च २०

भिषजा प्राक परीक्ष्यैवं विकाराणां स्वलक्षणम् पश्चात्कर्मसमारम्भः कार्यः साध्येषु धीमता २१

साध्यासाध्यविभागज्ञो यः सम्यक्प्रतिपत्तिमान् न स मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेत् २२

तत्र श्लोकौ-

इहौषधं पादगुणाः प्रभवो भेषजाश्रयः आत्रेयमैत्रेयमती मतिद्वैविध्यनिश्चयः २३

चतुर्विधविकल्पाश्च व्याधयः स्वस्वलक्षणाः उक्ता महाचतुष्पादे येष्वायत्तं भिषग्जितम् २४

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महाचतुष्पादो नाम दशमोऽध्यायः १०

Leave A Comment