Chapter 20 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charak Samhita – महारोगाध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 20 {रोग चतुष्क} { महारोगाध्याय}

अथातो महारोगाध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

चत्वारो रोगा भवन्ति — आगन्तुवातपित्तश्लेष्मनिमित्ताः तेषां चतुर्णमपि रोगाणां रोगत्वमेकविधं भवति रुक्सामान्यात् द्विविधा पुनः प्रकृतिरेषाम् आगन्तुनिजविभागात् द्विविधं चैषामधिष्ठानं मनः शरीरविशेषात् विकाराः पुनरपरिसंख्येयाः प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषपरिसंख्येयत्वात्

मुखानि तु खल्वागन्तोर्नखदशनपतनाभिचाराभिशापाभिषाङ्गाभिघातव्यधबन्धनवेष्टनपीडनरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि निजस्य तु मुखं वात पित्तश्लेष्मणां वैषम्यम् ४

द्वयोस्तु खल्वागन्तुनिजयोः प्रेरणमसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परि णामश्चेति ५

सर्वेऽपि तु खल्वेतेऽभिप्रवृधाश्चत्वारो रोगाः परस्परमनुबन्ति न चान्योन्येन सह सन्देहमापद्यन्ते ६

आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्ते जघन्यं व्यथामभिनिर्वर्तय न्ति ७

तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभाग उपदेच्यते तद्यथा– बस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनि पक्वाशयश्च वातस्थानानि तत्रापि पक्वाशयो विशेषेण थानं स्वेदो रसो लसीका रुधिरमामाशयश्च पित्त स्थानानि तत्राप्यामाशयो विशेषेण पित्तस्थानम् उरः शिरो ग्रीवा पर्वाण्या माशयो मेदश्च श्लेष्मस्थानानि तत्राप्युरो विशेषेण श्लेष्मस्थानम् ८

सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सर्वस्मिञ्छरीरे कुपिताकुपिताः शुभा शुभानि कुर्वन्ति–प्रकृतिभूताः शुभान्युपचयबलवर्णप्रसादादीनि अशुभानि पुनर्विकृतिमापन्ना विकारसंज्ञकानि तत्र विकाराः सामान्यजाः नानात्मजाश्च तत्र सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः नानात्मजांस्त्विहाध्यायेऽनुव्याख्यास्यामः तद्यथा–प्रशीतिर्वातविकाराः चत्वारिंशत् पित्तविकाराः विंशतिः श्लेष्मविकाराः १०

तत्रादौ वातविकाराननुव्याख्यास्यामः तद्यथा– नवभेदश्च विपादिका च पादशूलं च पादभ्रंशश्च पादसुप्तता च वातखुडता च गुल्फग्रहश्च पिण्डिकोद्वेष्टनं च गृध्रसी च जानुभेदश्च जानुवि श्लेषश्च ऊरुस्तम्भश्च ऊरुसादश्च पाङ्गुल्यं च गुदभ्रंशश्च गुदार्तिश्च वृषणाक्षेपश्च शेफस्तम्भश्च वङ्गणानाहश्च श्रोणिभेदश्च विड्भेदश्च उदावर्तश्च खञ्जत्वं च कु ब्जत्वं च वामनत्वं च त्रिकग्रहश्च पृष्ठग्रहश्च पार्श्वावमर्दश्च उदरावेष्टश्च हन्मा हेश्च हृद्रवश्च वक्ष उद्घर्षश्च वक्ष उपरोधश्च वक्षस्तोदश्च बाहुशोषश्च ग्रीवास्तम्भश्च मन्यास्तम्भश्च कण्ठोद्धवंसश्च हनुभेदश्च ओष्ठभेदश्च प्रतिभेदश्च दन्तभेदश्च द न्तशैथिल्यं च मूकत्वं च वाक्सङ्गश्च कषायास्यता च मुखशोषश्च अरसज्ञता च घाणनाशश्च कर्णशूलं च प्रशब्दश्रवणं च उच्चैःश्रुतिश्च बाधिर्यं च वर्त्मस्तम्भश्च वर्त्मसङ्कोचश्च तिमिरं च अतिशूलं च अदिव्युदासश्च भ्रूव्युदासश्च शङ्खभेदश्च ललाटभेदश्च शिरोरुक् च केशभूमिस्फुटनं च अर्दितं च एकाङ्गरोगश्च सर्वाङ्गरोगश्च पक्षवधश्च प्रक्षेपकश्च दण्डकश्च तमश्च भ्रमश्च वेपथुश्च जृम्भा च क्का च विषादश्च प्रतिप्रलापश्च रौदयं च पारुष्यं च श्यावारुणावभासता च अस्वप्नश्च अनवस्थितचित्तत्वं च इत्यशीतिर्वातविकारा वातविकाराणा मपरिसंख्येयानामाविष्कृततमा व्याख्याताः ११

सर्वेष्वपि खल्वेतेषु वातविकारेषुत्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपम परिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसन्देहा वात विकारमेवाध्यवस्यन्ति कुशलाः तद्यथा रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेति वायोरात्मरूपाणि एवंविधत्वाच्च वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः तद्यथा–स्रंसभ्रंसव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि तथा खरपरुष विशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्ज क्षतादीनि च वायोः कर्माणि तैरन्वितं वातविकारमेवाध्यवस्येत् १२

तं मधुरामललवणस्निग्धोष्णरुपक्रमैरुपक्रमेत स्नेहस्वेदास्थापनानुवासनन स्तःकर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिर्वातहरैर्मात्रां कालं च प्रमाणीकृत्य तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यते भिषजः तद्धयादित एव पक्वाशयमनुप्रविश्य केवलं वैकारिकं वातमूलं छिनत्ति तत्रावजितेऽपि वाते शरीरान्तर्गताः वातविकाराः प्रशान्तिमापद्यन्ते यथा वनस्पतेर्मूले छिन्ने स्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत् १३

पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः– प्रोषश्च प्लोषश्च दा हश्च दवथुश्च धूमकश्च अम्लकश्च विदाहश्च अन्तर्दाहश्च श्रंसदाहश्च ऊष्माधिक्यं च प्रतिस्वेदश्च श्रृङ्गस्वेदश्च श्रृङ्गगन्धश्च श्रृङ्गावदरणं च शोणितक्लेदश्च मांस क्लेदश्च त्वग्दाहश्च मांसदाहश्च त्वगवदरणं च चर्मदलनं च रक्तकोठश्च रक्त विस्फोटश्च रक्तपित्तं च रक्तमण्डलानि च हरितत्वं च हारिद्रत्वं च नीलिका च कक्षा च कामला च तिक्तास्यता च लोहितगन्धास्य ता च पूतिमुखता च तृष्णाधिक्यं च अतृतिश्च प्रास्यविपाकश्च गलपाकश्च अक्षिपाकश्च गुदपाकश्च मेढ्रपाकश्च जीवादानं च तमः प्रवेशश्च हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च इति व्याख्याताः १४

चत्वारिंशत्पित्तविकाराः पित्तविकाराणामपरिसंख्येयानामाविष्कृततमा
सर्वेष्वपि खल्वेतेषु पितविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपम परिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसंदेहाः पित्त विकारमेवाध्यवस्यन्ति कुशलाः तद्यथा–प्रौष्ण्यं तैष्ण्यं द्रवत्वमनति स्नेहो वर्णश्च शुक्लारुणवर्जो गन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि एवंविधत्वाच्च पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तं शरीरावयवमाविशतः तद्यथा-दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रा वरागायथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्य कर्माणि तैरन्वितं पित्त विकारमेवाध्यवस्येत् १५

तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेक प्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं च प्रमाणीकृत्य विरेचनं तु सर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमू लमपकर्षति तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमाप द्यन्ते यथाऽनौ व्यपोढे केवलमग्निगृहं शीतीभवति तद्वत् १६

श्लेष्मविकारांश्च विंशतिमत ऊर्ध्वं व्याख्यास्यामः तद्यथा– तृप्तिश्च तन्द्रा च निद्राधिक्यं च स्तैमित्यं च गुरुगात्रता च आलस्यं च मुखमाधुर्यं च मुख स्रावश्च श्लेष्मोद्गिरणं च मलस्याधिक्यं च बलासकश्च अपक्तिश्च हृदयोपले पश्च कराठोपलेपश्च धमनीप्रतिचयश्च गलगण्डश्च प्रतिस्थौल्यं च शीताग्निता च उदर्दश्च श्वेतावभासता च श्वेतमूरनेत्रवर्चस्त्वं च इति विंशतिः श्लेष्मविकाराः श्लेष्मविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याता भवन्ति १७

सर्वेष्वपि खल्वेतेषु श्लेष्मविकारेषूक्तेष्वन्येषु चानुक्तेषु श्लेष्मण इदमात्म रूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसंदेहाः श्लेष्मविकारमेवाध्यवस्यन्ति कुशलाः तद्यथा–स्नेहशैत्यशौक्ल्यगौर वमाधुर्यस्थैर्यपच्छिल्यमात्स्स्रर्यानि श्लेष्मण आत्मरूपाणि एवंविधत्वाञ्च श्लेष्मणः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः तद्यथा–श्वैत्यशैत्य कण्डू स्यै र्य गौरव स्ने हसुप्तिक्ले दोपदे हबन्धमा धुर्यचिरकारित्वानि श्लेष्मणः कर्माणि तैरन्वितं श्लेष्मविकारमेवाध्यवस्येत् ॥ १८

तं कटुकतिक्तकषायतीक्ष्णोष्णरु रुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचन व्यायामादिभिः श्लेष्महरैर्मात्रां कालं च प्रमाणीकृत्य वमनं तु सर्वोपक्रमे – भ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः तद्ध्यादित एवामाशयमनुप्रवि श्योरोगतं केवलं वैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति तत्रावजिते श्लेष्म रायपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते यथा भिन्ने केदारसे तौ शालियवष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति १६

भवन्ति चात्र-

रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत् २०

यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक् प्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया २१

तस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः देशकालप्रमाणज्ञस्तस्य सिद्धिरसंशयम् २२

तत्र श्लोकाः-

संग्रहः प्रकृतिर्देशो विकारमुखमीरणम् भसन्देहोऽनुबन्धश्च रोगाणां संप्रकाशितः २३

दोषस्थानानि रोगाणां गणा नानात्मजाश्च ये रूपं पृथक् च दोषाणां कर्म चापरिणामि यत् २४

पृथक्त्वेन च दोषाणां निर्दिष्टाः समुपक्रमाः सम्यग्रहति रोगाणामध्याये तत्त्वदर्शिना २५

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महारोगाध्यायो नाम विंशोऽध्यायः २०

समाप्तो रोगचतुष्कः ५

Leave A Comment