Chapter 12 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charak Samhita –वातकलाकलीयमध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 12 { निर्देश चतुष्क } {वातकलाकलीयमध्याय}

अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

वातकलाकलाज्ञानमधितृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य मह र्षयः पप्रच्छुरन्योऽन्यं– किंगुणो वायुः किमस्य प्रकोपणम् उपशमनानि वा ऽस्य कानि कथं चैनमसङ्घातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यो वेति ३

अोवाच कुशः साङ्कत्यायन–रूक्षलघुशीतदारुणखरविशदाः षडिमे वा तगुणा भवन्ति ४

तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच एवमेतद्यथा भगवानाह एत एव वातगुणा भवन्ति स त्वेवंगुणैरेवंद्रव्यैरेवंप्रभावैश्च कर्मभिरभ्यस्यमानैर्वा – युः प्रकोपमापद्यते समानगुणभ्यासो हि धातूनां वृधिकारणमिति ५

तच्छ्रुत्वा वाक्यं काङ्गायनो बाह्रीकभिषगुवाच एवमेतद्यथा भगवाना ह — एतान्येव वातप्रकोपणानि भवन्ति तो विपरीतानि वातस्य प्रशमनानि भ वन्ति प्रकोपण विपर्ययो हि धातूनां प्रशमकारणमिति ६

तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच — एवमेतद्यथा भगवानाह एता न्येव वातप्रकोपप्रशमनानि भवन्ति यथा ह्येनमसङ्घातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रश मयन्ति वा तथाऽनुव्याख्यास्यामः– वातप्रकोपणानि ख रूक्षलघुशीत दारुणखरविशदशुषिरकराणि शरीराणां तथाविधेषु शरीरेषु वायुराश्रयं ग त्वाऽऽप्यायमानः प्रकोपमापद्यते वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्ण मृदुपिच्छिलघनकराणि शरीराणां तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते ७

तच्छ्रुत्वा बडिशवचनमवित थमृषिगणैरनुमतमुवाच वार्योविदो राजर्षिः- एवमेतत् सर्वमनपवादं यथा भगवानाह यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यो वा भवन्ति तेषामवयवान् प्रत्यक्षानुमानोपदेशः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः वायुस्तन्त्रयन्त्रधरः प्राणोदानसमानव्यानापानात्मा प्रवर्तकश्चेष्टानामुच्चावचानां नियन्ता प्रणेता च मनसः सर्वेन्द्रियाणामुद्योजकः सर्वेन्द्रियार्थानामभिवोढा सर्वशरीरधातुव्यूहकरः सन्धानकरः शरीरस्य प्रवर्तको वाचः प्रकृतिः स्पर्श शब्दयोः श्रोत्रस्पर्शनयोर्मलं हर्षोत्साहयोर्योनिः समीरणोऽमेः दोषसंशोषणः क्षेप्ता बहिर्मलानां स्थूलाणुस्रोतसां भत्ता कर्ता गर्भाकृतीनाम् आयुषोऽनुवृ त्तिप्रत्ययभूतो भवत्यकुपितः कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारेरुपतपति बलवर्णसुखायुषा मुपघाताय मनो व्याहर्षयति सर्वेन्द्रियाण्युपहन्ति विनिहन्ति गर्भान् विकृ तिमापादयत्यतिकालं वा धारयति भयशोकमोहदैन्यातिप्रलापाञ्जनयति प्रा गांचोपरुणद्धि
प्रकृतिभूतस्य प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति तद्यथा- धरणीधारणं ज्वलनौज्ज्वालनम् आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगति विधानां सृष्टिश्च मेघानाम् अपां विसर्गः प्रवर्तनं स्रोतसां पुष्पफलानां चा भिनिर्वर्तनम् उद्भेदनं चौद्धिदानाम् ऋतूनां प्रविभागः विभागो धातूनां धातु मानसंस्थानव्यक्तिः बीजाभिसंस्कारः शस्याभिवर्धनमविक्लेदोपशोषणे – वैकारिकविकारश्चेति प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति तद्यथा- शिखरिशिखरावमथनम् उन्मथनमनोकहानाम् उत्पीडनं सागराणाम् उद्वर्तनं सरसां प्रतिसरणमापगानाम् कम्पनं च भूमेः धमनमम्बुदानां नीहार निर्हादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः व्यापादनं च षण्णामृतूनां शस्यानामसङ्घातः भूतानां चोपसर्गः भावानां चाभावकरणं च तुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः स हि भगवान् प्रभवश्चाव्ययश्च भूतानां भावाभावकरः सुखासुखयोर्विधाता मृत्युः यमः नियन्ता प्रजापतिः अदितिः विश्वकर्मा विश्वरूपः सर्वगः सर्व तन्त्राणां विधाता भावानामणः विभुः विष्णुः क्रान्ता लोकानां वायुरेव भग वानिति ८

तच्छ्रुत्वा वार्योविदवचो मरीचिरुवाच — यद्यप्येवमेतत् किमर्थस्यास्य व चने विज्ञाने वा सामर्थ्यमस्ति भिषग्विद्यायां भिषग्विद्यामधिकृत्येयं कथा प्रवृत्तेति वार्योविद उवाच भिषक् पवनमतिबलमतिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशम्येत् सहसा प्रकुपितमतिप्रयतः कथमग्रेऽभिरक्षितमभिधास्त प्रागेवैनमत्ययभयात् वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णविवृ द्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुः प्रकर्षाय चेति १०

मरीचिरुवाच — अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा–पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रकृतिवि कृतिवर्णौ शौयं भयं क्रोधं हर्षं मोहं प्रसादमित्येवमादीनि चापराणि द्वन्द्वा नीति ११

तच्छ्रुत्वा मरीचिवचः काप्य उवाच – सोम एव शरीरे श्लेष्मान्तर्गतः कु पिताकुपितः शुभाशुभानि करोति तद्यथा– – दाढर्यं शैथिल्यमुपचयं का मुत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वन्द्वानीति १२

तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच- सर्व एव भवन्तः स म्यगाहरन्यत्रैकान्तिकवचनात् सर्व एव खलु वातपि ष्माणः प्रकृतिभूताः पुरुषमव्यापनेन्द्रियं बलवर्णसुखोपपत्रमायुषा महतोपपादयन्ति सम्यगेवा चरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके वि कृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लो कमशुभेनोपघातकाल इति १३

तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति १४

भवति चात्र-

तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः १५

तत्र श्लोकौ-
गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः वायोश्चतर्विधं कर्म पृथक् च कफपित्तयोः १६

महर्षीणां मतिर्या या पुनर्वसुमतिश्च या कलाकलीये वातस्य तत् सर्वं संप्रकाशितम् १७

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयो नाम द्वादशोऽध्यायः समाप्तः १२

इति निर्देशचतुष्कः १३

Leave A Comment