Chapter 19 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charak Samhita –ऽष्टोदरीयमध्याय

Photo by Pixabay on Pexels.com

Sutra Sthana – Chapter 19 {रोग चतुष्क } {ऽष्टोदरीयमध्याय}

अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

इह खल्वष्टावुदराणि अष्टौ मूत्राघाताः अष्टौ क्षीरदोषाः अष्टौ रेतोदोषाः सप्त कुष्ठानि सप्त पिडकाः सप्त वीसर्पाः षडतीसाराः षडदावर्ताः पञ्च गुल्माः पञ्च प्लीहदोषाः पञ्च कासाः पञ्च श्वासाः पञ्च हिक्काः पञ्च तृष्णाः पञ्च छर्दयः पञ्च भक्तस्यानशनस्थानानि पञ्च शिरोरोगाः पञ्च हृद्रोगाः पञ्च पाण्डुरोगाः पञ्चो न्मादाः चत्वारोऽपस्माराः चत्वारोऽतिरोगाः चत्वारः कर्णरोगाः चत्वारः प्र तिश्याया चत्वारो मुखरोगाः चत्वारो ग्रहणीदोषाः चत्वारो मदाः चत्वारो मूर्च्छायाः चत्वारः शोषाः चत्वारि क्लैब्यानि त्रयः शोफाः त्रीणि किलासानि त्रिविधं लोहितपित्त द्वौ ज्वरौ द्वौ व्रौ द्वावायामौ द्वे गृध्रस्यौ द्वे कामले द्विविधमामं द्विविधं वातरक्तं द्विविधान्यशसि एक ऊरुस्तम्भः एकः संन्यासः एको महागदः विंशतिः क्रिमिजातयः विंशतिः प्रमेहाः विंशति योनिव्यापदः इत्यष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन् संग्रहे समुद्दिष्टानि ३

अष्टावदरणीति वातपित्तकफसन्निपातप्लीहबद्धच्छिद्रदकोदराणि अष्टौ मू त्राघाता इति वातपित्तकफसन्निपाताश्मरोशर्कराशुक्रशोणितजाः अष्टौ क्षीर दोषा इति वेवराय वैगन्ध्यं वैरस्यं पैच्छिल्यं फेनसङ्घातो रौयं गौरवमति – स्नेहथ अष्टौ रेतोदोषा इति तनु शुष्कं फेनिलमश्वेतं पूत्यतिपिच्छलमन्यधा तूपहितमवसादि च १

सप्त कुष्ठानीति कपालोदुम्बरमण्डलजिह्वपुण्डरीकसिध्मकाकरणानि सप्त पिडका इति शराविका कच्छपिका जाति सर्षप्यलजी विनता विद्रधी च सप्त विसर्पा इति वातपित्तकफाग्निकर्दमकग्रन्थिसन्निपाताख्याः २

षडतीसारा इति वातपित्तकफसत्रिपातभयशोकजाः षडदावर्ता इति वातमू त्रपुरीषशुक्रच्छर्दिक्षवथुजाः ३

पञ्च गुल्मा इति वातपित्तकफसन्निपातशोणितजाः पञ्च प्लीहदोषा इति गु ल्मैर्व्याख्याताः पञ्च कासा इति वातपित्तकफक्षतक्षयजाः पञ्च श्वासा इति महोर्ध्वच्छिन्नतमकक्षुद्राः पञ्च हिक्का इति महती गम्भीरा व्यपेता क्षुद्राना च पञ्च तृष्णा इति वातपित्तामक्षयोपसंसर्गात्मिकाः पञ्च छर्दय इति द्विष्टार्थ-संयो गजा वातपित्तकफसन्निपातोद्रेकोत्थाश्च भक्तस्यानशनस्थानामीति पञ्च वातपित्तकफसन्निपातद्वेषाः पञ्च शिरोरोगा इति पूर्वोद्देशमभिसमस्य वातपि त्तकफसन्निपातक्रिमिजाः पञ्च हृद्रोगा इति शिरोरोगैर्व्याख्याताः पञ्च पाण्डु रोगा इति वातपित्तकफसन्निपातमृद्भक्षणजाः पञ्चोन्मादा इति वातपित्तकफ सन्निपातागन्तुनिमित्ताः ४

चत्वारोऽपस्मारा इति वातपित्तकफसन्निपातनिमित्ताः चत्वारोऽक्षिरोगाश्च त्वारः कर्णरोगाश्चत्वारः प्रतिश्यायाश्चत्वारो मुखरोगाश्चत्वारो ग्रहणीदोषाश्च त्वारो मदाश्चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः चत्वारः शोषा इति साहससन्धारणक्षयविषमाशनजाः चत्वारि क्लैब्यानीति बीजोपघाताद्ध्व जभङ्गाजरायाः शुक्रक्षयाञ्च ५

त्रयः शोथा इति वातपित्तश्लेष्मनिमित्ताः त्रीणि किलासानीति रक्तताम्रशु क्लानि त्रिविधं लोहितपित्तमिति ऊर्ध्वभागमधोभागमुभयभागं च ६

द्वौ ज्वराविति उष्णाभिप्रायः शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थः द्वौ वणाविति निजश्चागन्तुजश्च द्वावायामाविति बाह्यश्चाभ्यन्तरश्च द्वे गृध्रस्यावि ति वाताद्वातकफाच्च द्वे कामले इति कोष्ठाश्रया शाखाश्रया च द्विविधमाम मिति अलसको विसूचिका च द्विविधं वातरक्तमिति गम्भीरमुत्तानं च द्वि विधान्यशसीति शुष्काण्यार्द्राणि च ७

एक ऊरुस्तम्भ इत्यामत्रिदोषसमुत्थः एकः संन्यास इति त्रिदोषात्मको मनः शरीराधिष्ठानः एको महागद इति तत्त्वाभिनिवेशः ८.

विंशतिः कृमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजा: के शादा लोमादा लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातरश्चेति षट् शोणितजाः अत्रादा उदरावेष्टा हृदयादाश्चरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरी षजाः विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्च सान्द्रमेहश्च सान्द्र प्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च नी लमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः वसा मेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः इति विंश तिः प्रमेहाः विंशतिर्योनिव्यापद इति वातिकी पैत्तिकी श्लैष्मिकी सान्निपा तिकी चेति चतस्त्रो दोषजाः दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते तद्यथा रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रनी चान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्यो निव्यापदो भवन्ति केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति ४

सर्व एव निजा विकारा नान्यत्र वातपित्तकफेभ्यो निर्वर्तन्तेयथाहिशकु निःसर्व दिवसमपि परिपतन् स्वां छायां नातिवर्तते तथा स्वधातुवैषम्यनि मित्ताः सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते वातपित्तश्लेष्माणां पुनः स्थानसंस्थानप्रकृतिविशेषानभिसमीक्ष्य तदात्म कानपि च सर्वविकारांस्तानेवोपदिशन्ति बुद्धिमन्तः ५

भवतश्चात्र-

स्वधातुवैषम्यनिमित्तजा ये विकारसंघा बहवः शरीरे न ते पृथक पित्तकफानिलेभ्य गन्तवस्त्वेव ततो विशिष्टाः ६

आगन्तुरन्वेति निजं विकारं निजस्तथाऽऽगन्तुमपि प्रवृद्धः तत्रानुबन्धं प्रकृतिं च सम्यग् ज्ञात्वा ततः कर्म समारभेत ७

तत्र श्लोकौ —

विंशकाश्चैककाश्चैव त्रिकाश्चोक्तास्त्रयस्त्रयः द्विकाश्चाष्टौ चतुष्काश्च दश द्वादश पञ्चकाः ८

चत्वारश्चाष्टका वर्गाः षट्कौ द्वौ सप्तकास्त्रयः अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिताः ६

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टोदरीयो नामोनविंशोऽध्यायः १६

Leave A Comment