Charak Samhita – ऽष्टौनिन्दतीयमध्याय

Photo by Pixabay on Pexels.com

Sutra Sthana – Chapter 21 {योजना चतुष्क } {ऽष्टौनिन्दतीयमध्याय}

अथातोऽष्टौनिन्दतीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दता भवन्ति तद्यथा–प्रतिदीर्घश्च अतिह्रस्वश्च अतिलोमा च अलोमा च अतिकृष्णश्च अतिगौरश्च अतिस्थूलश्च प्रतिकृशश्चेति ३

अत्रातिस्थूलकृशयोर्भूय एवापरे निन्दतविशेषा भवन्ति
अतिस्थूलस्य तावदायुषो हासो जवोपरोधः कृच्छ्रव्यवायता दौर्बल्यं दौर्ग न्ध्यं स्वेदाबाधः क्षुदतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः तदतिस्थौल्यमतिसंपूरणाद्गुरुमधुरशीतस्निग्धोपयोगादव्यायामादव्यवायाद्दि वास्वप्नाद्धर्षनित्यत्वादचिन्तनाद्वीजस्वभावाचोपजायते
तस्य ह्यतिमात्रमेदस्विनो मेद एवोपचीयते न तथेतरे धातवः तस्मादस्यायुषो ह्रासः शैथिल्यात् सौकुमार्याद्गुरुत्वाच्च मेदसो जवोपरोधः शुक्राबहुत्वान्मेद साऽऽवृतमार्गत्वाच्च कृच्छ्रव्यवायता हौर्बल्यमसमत्वाद्धातूनां दौर्गन्ध्यं मे दोदोषान्मेदसः स्वभावात् स्वेदनत्वाच्च मेदसः श्लेष्मसंसर्गाद्विष्यन्दित्वा द्वहत्वाद्गुरुत्वाद्व्यायामासहत्वाच्च स्वेदाबाधः तीक्ष्णामित्वात् प्रभूतकोष्ठवा युत्वाच्च क्षुदतिमात्रं पिपासातियोगश्चेति ४

भवन्ति चात्र-

मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः चरन् संधुक्षयत्यग्निमाहारं शोषयत्यपि ५

तस्मात् स शीघ्रं जरयत्याहारं चातिकांक्षति विकारांश्चाश्नुते घोरान् कांश्चित्कालव्यतिक्रमात् ६

एतावुपद्रवकरौ विशेषादग्निमारुतौ एतौ हि दहतः स्थूलं वनदावो वनं यथा ७

मेदस्यतीव संवृधे सहसैवानिलादयः विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ८

मेदोमांसातिवृधत्वाच्चलस्फिगुदरस्तनः यथोपचयोत्साहो नरोऽतिस्थूल उच्यते ६

इति मेदस्विनो दोषा हेतवो रूपमेव च निर्दिष्टं वक्ष्यते वाच्यमतिकार्ये त्वतः परम् १०

सेवा रूक्षानपानानां लङ्घनं प्रमिताशनम् क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः ११

रूक्षस्योद्वर्तनं स्नानस्याभ्यासः प्रकृतिर्जरा विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम् १२

व्यायाममतिसौहित्यं क्षुत्पिपासामयौषधम् कृशो न सहते तद्वदतिशीतोष्णमैथुनम् १३

प्लीहा कासः क्षयः श्वासो गुल्मोऽर्शांस्युदराणि च कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः १४

शुष्कस्फिगुदरग्रीवो धमनीजालसन्ततः त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः १५

सततं व्याधितावेतावतिस्थूलकृशौ नरौ सततं चोपचर्यौ हि कर्शनैबृंहणैरपि १६

स्थौल्यका वरं कार्यं समोपकरणौ हि तौ यद्युभौ व्याधिरागच्छेत् स्थूलमेवातिपीडयेत् १७

सममांसप्रमाणस्तु समसंहननो नरः दृढेन्द्रियो विकाराणां न बलेनाभिभूयते १८

क्षुत्पिपासातपसहः शीतव्यायामसंसहः समपक्ता समजरः सममांसचयो मतः १६

गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति कृशानां बृंहणार्थं च लघु संतर्पणं च यत् २०

वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च रूक्षोष्णा बस्तयस्तीक्ष्णा रूक्षारयुद्वर्तनानि च २१

गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च २२

विडङ्गं नागरं क्षारः काललोहरजो मधु यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते २३

बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः शिलाजतुप्रयोगश्च साग्रिमन्थरसः परः २४

प्रशातिका प्रियङ्गश्च श्यामाका यवका यवाः जूर्णाह्रा कोद्रवा मुद्द्राः कुलत्थाश्चकमुद्गकाः २५

आढकीनां च बीजानि पटोलामलकैः सह भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम् २६

अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान् प्रतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत् २७

प्रजागरं व्यवायं च व्यायामं चिन्तनानि च स्थौल्यमिच्छन् परिस्यक्तुं क्रमेणाभिप्रवर्धयेत् २८

स्वप्नो हर्षः सुखा शय्या मनसो निर्वृतिः शमः चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम् २६

नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः संस्कृतानि च मांसानि दधि सर्पिः पयांसि च ३०

इक्षवः शालयो माषा गोधूमा गुडवैकृतम् बस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा ३१

स्निग्धमुद्वर्तनं स्नानं गन्धमाल्यनिषेवणम् शुक्लं वासो यथाकालं दोषाणामवसेचनम् ३२

रसायनानां वृष्याणां योगानामुपसेवनम् हत्वाऽतिकार्श्यमाधत्ते नृणामुपचयं परम् ३३

अचिन्तनाञ्च कार्याणां ध्रुवं संतर्पणेन च स्वप्नप्रसङ्गाञ्च नरो वराह इव पुष्यति ३४

यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ३५

निद्रायत्तं सुखं दुःखं पुष्टिः कार्यं बलाबलम् वृषता क्लीवता ज्ञानमज्ञानं जीवितं न च ३६

अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता सुखायुषी पराकुर्यात् कालरात्रिरिवापरा ३७

सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता ३८

गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्शिताः अजीर्णिनः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः ३६

तृष्णातीसारशूलार्ताः श्वासिनो हिक्किनः कृशाः पतिताभिहितोन्मत्ताः क्लान्ता यानप्रजागरैः ४०

क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये सर्व एते दिवास्वप्नं सेवेरन् सार्वकालिकम् ४१

धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते श्लेष्मा पुष्णाति चाङ्गानि स्थैर्यं भवति चायुषः ४२

ग्रीष्मे त्वादानरूक्षाणां वर्धमाने च मारुते रात्रीणां चातिसंक्षेपादिवास्वप्नः प्रशस्यते ४३

ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ४४

मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः दूषीविषार्ताश्च दिवा न शयीरन् कदाचन ४५

हलीमकः शिरःशूलं स्तैर्मित्यं गुरुगात्रता अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च ४६

शोफारोचकहल्लासपीनसार्धावभेदकाः कोठारुः पिडकाः कण्डूस्तन्द्रा कासो गलामयाः ४७

स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः इन्द्रियाणामसामर्थ्य विषवेगप्रवर्तनम् ४८

भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात् तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः ४६

रारौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम् ५०

देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः स्वप्नाहारसमुथे च स्थौल्यका विशेषतः ५१

अभ्यङ्गोत्सादनं स्नानं ग्राम्यानूपौदका रसाः शाल्यन्नं सदधि क्षीरं स्नेहो मद्यं मनः सुखम् ५२

मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च चक्षुषोस्तर्पणं लेपः शिरसो वदनस्य च ५३

स्वास्तीर्णं शयनं वेश्म सुखं कालस्तथोचितः आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः ५४

कायस्य शिरसश्चैव विरेकश्छर्दनं भयम् चिन्ता क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम् ५५

उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम् ५६

एत एव च विज्ञेया निद्रानाशस्य हेतवः कार्य कालो विकारश्च प्रकृतिर्वायुरेव च ५७

तमोभवा श्लेष्मसमुद्भवा च मनः शरीरश्रमसंभवा च आगन्तुकी व्याध्यनुवर्तिनी च रारिस्वभावप्रभवा च निद्रा ५८

रात्रिस्वभावप्रभवा मता या तां भूतधात्रीं प्रवदन्ति तज्ज्ञाः तमोभवामाहुरघस्य मूलं शेषाः पुनर्व्याधिषु निर्दिशन्ति ५६

यत्र श्लोकाः —

निन्दिताः पुरुषास्तेषां यौ विशेषेण निन्दतौ निन्दिते कारणं दोषास्तयोर्निन्दितभेषजम् ६०

येभ्यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा अतिनिद्रायानिद्राय भेषजं यद्भवा च सा ६१

या या यथाप्रभावा च निद्रा तत् सर्वमत्रिजः अष्टौनिन्दितसंख्याते व्याजहार पुनर्वसुः ६२

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टौनिन्दितीयो नामैकविंशतितमोऽध्यायः २१

Adil Farooq Malik: The Author is An Ayurveda Scholar. If you find the blogs/articles informative : do share it and if you have any query, leave it in the contact us tab. Thank You