Chapter 26 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charaka samhita –– आत्रेयभद्रकाप्यीयमध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 26 { अन्नपान चतुष्क } {आत्रेयभद्रकाप्यीयमध्याय}

अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च
पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः ३

यः कुमारशिरा नाम भरद्वाजः स चानघः श्रीमान् वार्योविदश्चैव राजा मतिमतां वरः ४

निमिश्च राजा वैदेहो वडिशश्च महामतिः काङ्कायनश्च बाह्रीको बाह्रीकभिषजां वरः ५

एते श्रुतवयोवृद्धा जितात्मानो महर्षयः वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ६

तेषां तत्रोपविष्टानामियमर्थवती कथा बभूवार्थविदां सम्यग्रसाहारविनिश्चये ७

एक एव रस इत्युवाच भद्रकाप्यः यं पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशलाः स पुनरुदकादनन्य इति द्वौ रसाविति शाकुन्तेयो ब्राह्मणः छेदनीय उपशमनीयश्चेति त्रयो रसा इति पूर्णाक्षो मौद्गल्यः छेदनीयोपशमनीयसाधारणा इति चत्वारो रसा इति हिरण्याक्षः कौशिकः स्वादुर्हितश्च स्वादुरहितश्चास्वादु र्हितश्चास्वादुरहितश्चेति पञ्च रसा इति कुमारशिरा भरद्वाजः भौमौदकाग्नेयवायव्यान्तरिक्षाः

षड्सा इति वार्योंविदो राजर्षिः गुरुलघुशीतोष्णस्स्रिग्धरूक्षाः

सप्त रसा इति निमिवैदेहः मधुराम्ललवणकटुतिक्तकषायक्षाराः

अष्टौ रसा इति बडिशो धामार्गवः मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः

परिसंख्येया रसा इति काङ्कायनो बाह्रीकभिषक्
आश्रयगुणकर्मसंस्वादविशेषाणामपरिसंख्येयत्वात् ८

षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः मधुराम्ललवणकटुतिक्तकषायाः तेषां षण्णां रसानां योनिरुदकं छेदनोपशमने द्वे कर्मणी तयोमिश्रीभावात् साधारणत्वं स्वाद्वस्वादुता भक्तिः हिताहितौ प्रभावौ पञ्चमहाभूतविकारा स्त्वाश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः तेष्वाश्रयेषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशोतोष्ण स्त्रिग्धरूक्षाद्याः क्षरणात् क्षारः नासौ रसः द्रव्यं तदने करससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियार्थसमन्वितं करणा निर्वृत्तम् अव्यक्तीभावस्तु खलु रसानां प्रकृतौ भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये परिसंख्येयत्वं पुनस्तेषामाश्रयादीनां भावानां विशेषापरिसंख्ये यत्वान युक्तम् एकैकोऽपि ह्येषामाश्रयादीनां भावानां विशेषानाश्रयते विशे षापरिसंख्येयत्वात् न च तस्मादन्यत्वमुपपद्यते परस्परसंसृष्टभूयिष्ठत्वान्न चैषामभिनिर्वृत्तेर्गुणप्रकृतीनामपरिसंख्येयत्वं भवति तस्मान्न संसृष्टानां रसा नां कर्मोपदिशन्ति बुद्धिमन्तः तच्चैव कारणमपेक्षमाणाः षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वमुपदेच्यामः ६

ये तु तावद्रव्यभेदमभिप्रेत्य किंचिदभिधास्यामः सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे तच्चेतनावदचेनं च तस्य गुणाः शब्दादयो गुर्वादयश्च द्रवान्ताः कर्म पञ्चविधमुक्तं वमनादि १०

तत्र द्रव्याणि गुरुखकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पा र्थिवानि तान्युपचयसङ्घातगौरवस्थैर्यकराणि द्रवस्स्रिग्धशीतमन्दमृदुपिच्छि लरसगुणबहुलान्याप्यानि तान्युपक्लेदस्त्रेहबन्धविष्यन्दमार्दवप्रह्लादकराणि उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्यानेयानि तानि दाहपाकप्र भाप्रकाशवर्णकराणि लघुशीतरूनखरविशदसूक्ष्मस्पर्शगुणबहुलानि वाय व्यानि तानि रौदयग्लानि विचारवेशद्यलाघवकराणि मृदुलघुसूक्ष्मश्ल दणशब्दगुणबहुलान्याकाशात्मकानि तानि मार्दवसौषिर्यलाघवकराणि ११

अनेनोपदेशेन नानौषधिभूतं जगति किंचिद्रव्यमुपलभ्यते तां तां युक्तिम च तं तमभिप्रेत्य १२

न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति द्रव्याणि हि द्रव्य प्रभावाद्गुणप्रभावाद्रव्यगुणप्रभावाञ्च तस्मिंस्तस्मिन् काले तत्तदधिकरणमा साद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति तत् कर्म येन कुर्व न्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यदा कुर्वन्ति स कालः यथा कुर्वन्ति स उपायः यत् साधयन्ति तत् फलम् १३

भेदश्चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद्भवति तमुपदेक्ष्यामः १४

स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक्
यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु १५

पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत्
मधुरस्य तथाऽम्लस्य लवणस्य कटोस्तथा १६

त्रिरसानि यथासंख्यं द्रव्याण्युक्तानि विंशतिः
वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च १७

स्वाद्वम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ
योगं शेषेः पृथग्यातश्चतुष्करससंख्यया १८

सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक्
युक्तौ शेषः पृथग्योगं यातः स्वादूषणौ तथा १६

कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक् यातः शेषः पृथग्योगं शेषैरम्लकटू तथा २०

युज्यते तु कषायेण सतिक्तौ लवणोषणौ षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात् २१

षट् चैवैकरसानि स्युरेकं षड्समेव तु इति त्रिषष्टिद्रव्याणां निर्दिष्टा रससंख्यया २२

रिषष्टिः स्यात्त्वसंख्येया रसानुरसकल्पनात् रसास्तरतमाभ्यां तां संख्यामतिपतन्ति हि २३

संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा रसानां तत्र योग्यत्वात् कल्पिता रसचिन्तकैः २४

क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित्

दोषौषधादीन् संचिन्त्य भिषजा सिद्धिमिच्छता २५

द्रव्याणि द्विरसादीनि सम्युक्तांश्च रसान् बुधाः रसानेकैकशो वाऽपि कल्पयन्ति गदान् प्रति २६

यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित् न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिषु २७

व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते विपर्ययेणानुरसो रसो नास्ति हि सप्तमः २८

परापरत्वे युक्तिश्च संख्या संयोग एव च विभागश्च पृथक्त्वं च परिमाणमथापि च २६

संस्कारोऽभ्यास इत्येते गुणाज्ञेयाः परादयः सिद्ध्युपायाश्चिकित्साया लक्षणेस्तान् प्रचक्ष्महे ३०

देशकालवयोमानपाकवीर्यरसादिषु परापरत्वे युक्तिश्च योजना या तु युज्यते ३१

संख्या स्याद्गणितं योगः सह संयोग उच्यते द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च ३२

विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः

पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता ३३

परिमाणं पुनर्मानं संस्कार करणं मतम् भावाभ्यसनमभ्यासः शीलनं सततक्रिया ३४

इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः चिकित्सा यैरविदितैर्न यथावत् प्रवर्तते ३५

गुणा गुणाश्रया नोक्तास्तस्माद्रसगुणान् भिषक् विद्याद्रव्यगुणान् कर्तुरभिप्रायाः पृथग्विधाः ३६

प्रतश्च बुद्ध्वा देशकालान्तराणि च तन्त्रकर्तुरभिप्रायानुपायांश्चार्थमादिशेत् ३७

षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम्
षट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः ३८

सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च तास्त्व न्तरिक्षाद्भ्राश्यमाना भ्रष्टाश्च पञ्चमहाभूतगुणसमन्विता जङ्गमस्थावराणां भू तानां मूर्तीरभिप्रीणयन्ति तासु मूर्तिषु षडभिमूर्च्छन्ति रसाः ३६

तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः पृथिव्यग्निभूयिष्ठत्वादम्लः सलिलाग्रिभूयिष्ठत्वाल्लवणः वाय्वग्निभूयिष्ठत्वात् कटुकः वाय्वाकाशा तिरिक्तत्वात्तिक्तः पवनपृथिव्यतिरेकात् कषाय इति एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः षडृतु कत्वाच्च कालस्योपपन्नो म हाभूतानां न्यूनातिरेकविशेषः ४०

तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः लाघवादुत्प्लवनत्वाच्च वायोरू र्ध्वज्वलनत्वाच्च वह्नेः सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः पृथिव्या गुरुत्वान्निम्म्रगत्वाच्चोदकस्य व्यामिश्रात्मकाः पुनरुभयोभाजः ४१

तत्र मधुरोरसः शरीरसात्म्याद्रसरुधिरमांसमेदोस्थिमज्जौजः शुक्राभिवर्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पितविषमारुतस्तृष्णादाहप्रशम नस्त्वच्यः केश्यः कण्ठ्यो बल्यः प्रीणनो जीवनस्तर्पणो बृंहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो मूर्च्छाप्रशमनः षट्प दपिपीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाषमग्नेर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकासप्रति श्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुसंज्ञास्वरप्रणाशगलगण्डगण्डमा लाश्लीपदगलशोफबस्बिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्येवंप्रभृतीन् कफजान् विकारानुपजनयति अम्लो रसो भक्तं रोचयति अग्निं दीपयति देहं बृहयति ऊर्जयति मनो ब्रोधयति इन्द्रियाणि दृढीकरोति बलं वर्धयति वातमनुलोमयति हृदयं तर्पयति आस्यमास्रावयति भुक्तमपकर्षयति क्लेद यति जरयति प्रीणयति लगुरुष्णः स्त्रिधश्चस एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति तर्षयति संमील यत्यक्षिणी संवेजयति लोमानि कफं विलापयति पित्तमभिवर्धयति रक्तं दू षयति मांसं विदहति कायं शिथिलीकरोति क्षीणक्षतकृशदुर्बलानां श्वयथ मापादयति अपि च क्षताभिहतदष्टदग्धभग्रशूनप्रछुतावमूत्रितपरिसर्पितमर्दि तच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं च २

लवणो रसः पाचनः क्लेदनो दीपनश्च्यावनश्छेदनो भेदनस्तीक्ष्णः सरो वि कास्यधः स्त्रस्यवकाशकरो वातहरः स्तम्भबन्धसङ्घातविधमनः सर्वरसप्रत्य नीकभूतः आस्यमास्रावयति कफं विष्यन्दयति मार्गान् विशोधयति शर्व शरीरावयवान् मृदूकरोति रोचयत्याहारम् आहारयोगी नात्यर्थं गुरुः उष्णश्च स एवंगुणोऽप्येक एवात्यर्थपयुज्यमानः पित्तं कोपयति रक्तं वर्धयति तर्षयतिमूर्च्छयति तापयति दारयति कुष्णाति मांसानि प्रगालयति कुष्ठानि विषं व र्धयति शोफान् स्फोटयति दन्तांश्च्यावयति पुंस्त्वमुपहन्ति इन्द्रियाण्युपर गाद्धि वलिपलितखालित्यमापादयति अपि च लोहितपित्ताम्लपित्तवीसर्प वातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन्विकारानुपजनयति ३

कटुको रसो वक्त्रं शोधयति अग्निं दीपयति भुक्तं शोषयति घ्राणमात्रावयति चक्षुर्विरेचयति स्फुटीकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्दाभिष्यन्दस्त्रे हस्वेदक्लेदमलानुपहन्ति रोचयत्यशनं कण्डूर्विनाशयति व्रणानवसादयति क्रिमीन् हिनस्ति मांस विलिखति शोणितसङ्घातं भिनत्ति बन्धांश्छिनत्ति मार्गान् विवृणोति श्लेष्माणं शमयति लघुरुष्णो रूक्षश्च
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति रसवीर्यप्रभावान्मोहयन्ति ग्लापयति सादयति कर्शयति मूर्च्छयति नमयति तमयति भ्रमयति कण्ठं परिदहति शरीरतापमुपजनयति बलं क्षिणोति तृष्णां जनयति अपि च वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्व पृष्ठप्रभृतिषु मारुतजान् विकारानुपजनयति ४

तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिनो मूर्च्छादाहकण्डू कुष्ठतृष्णाप्रशमनस्त्वांसयोः स्थिरीकरणो ज्वरनो दीपनः पाचनः स्तन्य शोधनो लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोप शोषणो रूक्षः शीतो लघुश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च रस रुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति स्रोतसां खरत्वमुपपादयति बल मादत्ते कर्शयति ग्लपयति मोहयति भ्रमयति वदनमुपशोषयति अपरांश्च वातविकारानुपजनयति ५

कषायो रसः संशमनः संग्राही सन्धानकरः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान ग्रास्यं शोषयति हृदयं पीडयति उदरमाध्यापयति वाचं निगृह्णाति स्रोतांस्यववध्नाति श्यावत्वमापादयति पुंस्त्वमुपहन्ति विष्टभ्य जरां गच्छति वातमूत्रपुरीषरेतांस्यवगृह्णाति कर्शयति ग्लपयति तर्षयति स्तम्भयति खरविशदरूक्षत्वात पक्षवधग्रहापतानकार्दितप्रभृतींश्च वात विकारानुपजनयति ४३ इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपका
राय भवन्त्यध्यात्मलोकस्य अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति ४४

भवन्ति चात्र-

शीतं वीर्येण यद्रव्यं मधुरं रसपाकयोः तयोरम्लं यदुष्णं च यद्रव्यं कटुकं तयोः ४५

तेषां रसोपदेशेन निर्देश्यो गुणसंग्रहः वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते ४६

यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक ४७

मधुरं किंचिदुष्णं स्यात् कषायं तिक्तमेव च यथा महत्पञ्चमूलं यथाऽब्जानूपमामिषम् ४८

लवणं सैन्धवं नोष्णमम्लमामलकं तथा अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते ४६

किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च
यथा कपित्थं संग्राहि भेदि चामलकं तथा ५०

पिप्पली नाग्रं वृष्यं कटु चावृष्यमुच
कषायः स्तम्भनः शीतः सोऽभयायामतोऽन्यथा ५१

तस्माद्रसोपदेशेन न सर्वं द्रव्यामादिशेत् दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम् ५२

रौदयात् कषायो रूक्षाणामुत्तमो मध्यमः कटुः तिक्तोऽवरस्तथोष्णानामुष्णत्वाल्लवणः परः ५३

मध्योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहानिरुच्यते ५४

मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः ५५

अम्लात् कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः केचिल्लघूनामवर मिच्छन्ति लवणं रसम् ५६

गौरवे लाघवे चैव सोऽवरस्तुभयोरपि परं चातो विपाकानां लक्षणं संप्रवक्ष्यते ५७

कटुतिक्तकषायाणां विपाकः प्रायशः कटुः अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ५८

मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः ५६

कटुक्तिकषायास्तु रूक्षभावात्त्रयो रसा दुःखाय मोते दृश्यन्ते वातविरामूत्ररेतसाम् ६०

शुक्रहा बद्धविरामूत्रो विपाको वातलः कटुः मधुरः सृष्टविणमूत्रो विपाकः कफशुक्रलः ६१

पित्तकृत् सृष्टविरामूत्रः पाकोऽम्लः शुक्रनाशनः तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा ६२

विपाकलक्षणस्याल्पमध्यभूयिष्ठातां प्रति द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत् ६३

मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम् वीर्यमष्टविधं केचित् केचिद्विविधमास्थिताः ६४

शीतोष्णमिति वीर्यं तु क्रियते येन या क्रिया तु नावीर्यं कुरुते किंचित् सर्वा वीर्यकृता क्रिया ६५

रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते ६६

रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते विशेषः कर्मणा चैव प्रभावस्तस्य स स्मृतः ६७

कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम् ६८

विषं विषमुक्तं यत् प्रभावस्तत्र कारणम् ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम् ६६

मणीनां धारणीयानां कर्म यद्विविधात्मकम् तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ७०

सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः किंचिद्रसेन कुरुते कर्म वीर्येण चापरम् ७१

द्रव्यं गुणेन पाकेन प्रभावेण च किंचन रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति ७२

बलसाम्ये रसादीनामिति नैसर्गिकं बलम् षराणां रसानां विज्ञानमुपदेक्ष्याम्यतः परम् ७३

स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते

मुखस्थो मधुरश्चास्यं व्याप्नुवल्लिम्पतीव च ७४

दन्तहर्षान्मुखास्रावात् स्वेदनान्मुखबोधनात् विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत् ७५

प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे

यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च ७६

संवेजयेद्यो रसनां निपाते तुदतीव च विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः ७७

प्रतिहन्ति निपाते यो रसनं स्वदते न च स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः ७८

वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः बनातीव च यः कण्ठं कषायः स विकास्यपि ७६

एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच — भगवन् श्रुतमेतदवितथमर्थ संपद्युक्तं भगवतो यथावद्रव्यगुणकर्माधिकारे वचः परं त्वाहारविकाराणां वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ८०

तमुवाच भगवानात्रेयः — देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरो धमापद्यन्ते परस्परगुणविरुद्धानि कानिचित् कानिचित् संयोगात् संस्कारा दपराणि देशकालमात्रादिभिश्चापराणि तथा स्वभावादपराणि ८१

तत्र यान्याहारमधिकृत्य भुयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्यो पदेक्ष्यामः-न मत्स्यान् पयसा सहाभ्यवहरेत् उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय म हाभिष्यन्दित्वान्मार्गोपरोधाय च ८२

तन्निशम्यात्रेयवचवमनु भद्रकाप्योऽग्निवेशमुवाच – सर्वानेव मत्स्यान् प यसा सहाभ्यवहरेदन्यत्रैकस्माञ्चिलिचिमात् स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति तं चेत् पयसा सहाभ्य वहरेनिःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति ८३

नेति भगवानात्रेयः — सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चि लिचिमं स हि महाभिष्यन्दित्वात् स्थूललक्षणतरानेतान् व्याधीनुपजनयत्यामविषमुदीरयति ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर्विरूढधान्यैर्वा नैकध्यमद्यात् तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैरिमण्यमथवा मरणमाप्नोति न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान्मधुपयोभ्यां सहा भ्यवहरेत् तन्मूलं हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशङ्खकगलग ण्डरोहिणीनामन्यतमं प्राप्नोत्यथवा मरणमिति न मूलकलशुनकृष्णगन्धार्जकसुरसादीनि भक्षयित्वा पयः सेव्यं कुष्ठाबाध भयात्न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम् एतद्धि मरणाया थवा बलवर्णतेजोवीर्योपपरोधायालघुव्याधये षाण्ढ्याय चेति तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात् तथाऽऽम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्यजाम्ब वकपित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकान्येवंप्रकारा णि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम् तथा कङ्गवनकमकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः पद्मोत्तरकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोप यति हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य बलाका वारुण्या सह कुल्माषैरपि विरुद्धा सैव शूकरवसापरिभृष्टा सद्योव्यापादयति
मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यो व्यापाद यति हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय मधु चोष्णमुष्णार्तस्य च मधु मरणाय मधुसर्पिषी समधृते मधु वारि चान्तरिक्षं समधृतं मधु पुष्करबीजं मधु पी त्वोष्णोदकं भल्लातकोष्णोदकं तक्रसिद्धः कम्पिल्लकः पर्युषिता काकमाची अङ्गारशूल्यो भासश्चेति विरुद्धानि इत्येतद्यथाप्रश्नमभिनिर्दिष्टं भवतीति ८४

भवन्ति चात्र श्लोकाः-
यत् किञ्चिद्दोषमास्राव्य न निर्हरति कायतः आहारजातं तत् सर्वमहितायोपपद्यते ८५

यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि ८६

परिहारोपचाराभ्यां पाकातृ संयोगतोऽपि च विरुद्धं तच्च न हितं हृत्संपद्विधिभिश्च यत् ८७

विरुद्धं देशतस्तावद्रूक्षतीक्ष्णादि धन्वनि आनूपे स्निग्धशीतादि भेषजं यनिषेव्यते ८८

कालतोऽपि विरुद्धं यच्छीतरुक्षादिसेवनम् शीते काले तथोष्णे च कटुकोष्णादिसेवनम् ८६

विरुद्धमनले तद्वदन्नपानं चतुर्विधे मधुसर्पिः समधृतं मारया तद्विरुध्यते ६०

कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम् यत्तत् सात्म्यविरुद्धं तु विरुद्धं त्वनिलादिभिः ६१

तुया समानगुणाभ्यासविरुद्धान्नौषधक्रिया संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत् ६२

एरण्डसीसकासक्तं शिखिमांसं यथैव हि

विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम् ६३

तत् संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम् ६४

मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु एतत् कोष्ठविरुद्धं तु विरुद्धं स्यादवस्थया ६५

श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ६६

यच्चानुसृज्य विरामूत्रं भुङ्क्ते यश्चाबुभुक्षितः तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्रशानुगः ६७

परिहारविरुद्धं तु वराहादीनिषेव्य यत्
सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते क
विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम् अपक्वतण्डलात्यर्थपक्वदग्धं च यद्भवेत
संयोगतो विरुद्धं तद्यथाऽम्लं पयसा सह
अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते संपद्विरुद्धं तद्विद्यादसंजातरसं तु यत् १००

प्रतिक्रान्तरसं वाऽपि विपन्नरसमेव वा
ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत्
तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् १०१

षाण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगन्दराणाम् मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव १०२

किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम्
सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम १०३

एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा भ वन्ति तद्यथा– वमनं विरेचनं च तद्विरोधिनां च द्रवाणां संशमनार्थमुपयोगः तथा-विधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीरस्येति १०४

भवतश्चात्र-

विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् वमनं शमनं चैव पूर्व वा हितसेवनम् १०५

सात्म्यतोऽल्पतया वाऽपि दीप्ताग्रेस्तरुणस्य च
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् १०६

तत्र श्लोकाः

मतिरासीन्महर्षीणां या या रसविनिश्चये द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया १०७

कारणं रससंख्याया रसानुरसलक्षणम् परादीनां गुणानां च लक्षणानि पृथक्पृथक् १०८

पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः १०६

षण्णां रसानां षट्त्वे च सविभक्ता विभक्तयः उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ११०

प्रवरावरमध्यत्वं रसानां गौरवादिषु पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चयः १११

षण्णामास्वाद्यमानानां रसानां यत् स्वलक्षणम्

यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ११२

वैरोधिकनिमित्तानां व्याधीनामौषधं च यत्
आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः ११३

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः २६

Leave A Comment