Chapter 25 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charaka samhita –– यज्जः पुरुषियमध्याय

Photo by Pixabay on Pexels.com

Sutra Sthana – Chapter 25 {अन्नपान चतुष्क} {यज्जः पुरुषियमध्याय}

अथातो यज्जः पुरुषियमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम् समेतानां महर्षीणां प्रादुरासीदियं कथा ३

आत्मेन्द्रियमनोर्थानां योऽयं पुरुषसंज्ञकः राशिरस्यामयानां च प्रागुत्पत्तिविनिश्चये ४

तदन्तरं काशिपतिर्वामको वाक्यमर्थवित् ब्याजहारर्षिसमितिमुपसृत्याभिवाद्य च ५

किन्नुभोः पुरुषो यज्जस्तजास्तस्यामयाः स्मृताः न वेत्युक्ते नरेन्द्रेण प्रोवाचर्षीन् पुनर्वसुः ६

सर्व एवामितज्ञानविज्ञानच्छिन्नसंशयाः भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम् ७

पारीक्षिस्तत्परीक्ष्याग्रे मौद्गल्यो वाक्यमब्रवीत् आत्मजः पुरुषो रोगाश्चात्मजाः कारणं हि सः ८

स चिनोथ्युपभुङ्क्ते च कर्म कर्मफलानि च नह्यते चेतनाधातोः प्रवृत्तिः सुखधुवयोः ६

शरलोमा तु नेत्याह न ह्यात्माऽऽत्मानमात्मना योजयेद्व्याधिभिर्दुःखैदुःखद्वेषी कदाचन १०

रजस्तमोभ्यां तु मनः परीतं सत्त्वसंज्ञकम्

शरीरस्य समुत्पत्तौ विकाराणां च कारणम् ११

वार्योदिवस्तु नेत्याह न ह्येकं कारणं मनः नर्ते शरीराच्छारीररोगा न मनसः स्थितिः १२

रसजानि तु भूतानि व्याधयश्च पृथग्विधाः आपो हि रसवत्यस्ताः स्मृता निर्वृत्तिहेतवः १३

हिरण्याक्षस्तु नेत्याह न ह्यात्मा रसजः स्मृतः नातीन्द्रियं मनः सन्ति रोगाः शब्दादिजास्तथा १४

षट्धातुजस्तु पुरुषो रोगाः षट्धातुजास्तथा राशिः षड्धातुजो ह्येष सांख्यैराद्यैः प्रकीर्तितः १५

तथा ब्रुवाणं कुशिकमाह तन्नेति कौशिकः कस्मान्मातापितृभ्यां हि विना षड्धातुजो भवेत् १६

पुरुषः पुरुषाद्गौर्गोरश्वादश्वः प्रजायते

पित्र्या मेहादयश्चोक्ता रोगास्तावत्र कारणम् १७

भद्रकाप्यस्तु नेत्याय नह्यन्धोऽन्धात् प्रजायते मातापित्रोरपि च ते प्रागुत्पत्तिर्न युज्यते १८

कर्मजस्तु मतो जन्तुः कर्मजास्तस्य चामयाः नह्यते कर्मणो जन्म रोगाणां पुरुषस्य वा १६

भरद्वाजस्तु नेत्याह कर्ता पूर्व हि कर्मणः दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम् २०

भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च खरद्रवचलोष्णत्वं तेजोन्तानां यथैव हि २१

काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत् भवेत् स्वभावाद्भावानामसिद्धिः सिद्धिरेव वा २२

स्स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः चेतनाचेतनस्यास्य जगतः सुखदुःखयोः २३

तन्नेति भिक्षुरात्रेयो न ह्यपत्यं प्रजापतिः प्रजाहितैषी सततं दुःखैर्युञ्ज्यादसाधुवत् २४

कालजस्त्वेव पुरुषः कालजास्तस्य चामयाः जगत् कालवशं सर्वं कालः सर्वत्र कारणम् २५

तथर्षीणां विवदतामुवाचेदं पुनर्वसुः मैवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात् २६

वादान् सप्रतिवादान् हि वदन्तो निश्चितानिव पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ २७

मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम् नाविधूते तमः स्कन्धे ज्ञेये ज्ञानं प्रवर्तते २८

येषामेव हि भावानां संपत् संजनयेन्नरम् तेषामेव विपद्व्याधीन्विविधान्समुदीरयेत् २६

अथात्रेयस्य भगवतो वचनमनुनिशस्य पुनरेव वामकः काशिपतिरुवाच भगवन्तमात्रेयं– भगवन् संपनिमित्तजस्य पुरुषस्य विपिनमित्तानां च रोगाणां किमभिवृद्धिकारणमिति ३०

तमुवाच भगवानात्रेयः– हिताहारोपयोग एकएव पुरुषवृद्धिकरो भवति अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति ३१

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच कथमयि भगवन् हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे हितसमाख्यातानामाहा रजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्था – न्तरेषु विपरीतकारित्वमुपलभामह इति ३२

तमुवाच भगवानात्रेयः — यदाहारजातमग्निवेश समांश्चैव शरीरधातून प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि विपरीतं त्वहितमिति इ त्येतद्धिताहितलक्षणमनपवादं भवति ३३

एवंवादिनं च भगवन्तमात्रेयमग्निवेश उवाच भगवन् न त्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति ३४

तमुवाच भगवानात्रेयः– येषां हि विदितमाहारतत्वमग्निवेश गुणतो द्रव्यतः कर्मतः सर्वावयवशश्च मात्रादयो भावाः त एतदेवमुपदिष्टं विज्ञातुमुत्सहन्ते यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति तथैतदुपदे त्यामो मात्रादीन भावानुदाहरन्तः तेषां हि बहुविधविकल्पा भवन्ति आहारविधिविशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्यास्यामः ३५

तद्यथा– आहारत्वमाहारस्यैकविधमर्थाभेदात् स पुनर्द्वियोनिः स्थावरजङ्ग मात्मकत्वात द्विविध प्रभावः हिताहितोदर्कविशेषात् चतुर्विधोपयोगः पा नाशनभत्त्यलेह्योपयोगात् षडास्वादः रसभेदतः षड्विधत्वात् विंशतिगुणः गुरुलघुशीतोष्णस्त्रिग्धरूक्षमन्दतीच्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लदणखरसूत्मस्थूलसान्द्रद्रवानुगमात् अपरिसंख्येयविकल्पः द्रव्यसंयोगक रणबाहुल्यात् ३६

तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुज्यन्ते भूयिष्ठकल्पानां च मनु ष्याणां प्रकृत्यैव हिततमाश्चाहिततमाश्च तांस्तान् यथावदुपदेक्ष्यामः ३७

तद्यथा–लोहितशालय शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति मुद्गाः शमीधान्यानाम् आन्तरिक्षमुदकानां सैन्धवं लवणानां जीवन्तीशाकं शाका नाम् ऐणेयं मृगमांसानां लावः पक्षिणां गोधा विलेशयानां रोहितो मत्स्यानांगव्यं सर्पिः सर्पिषां गोतीरं क्षीराणां तिलतैलं स्थावरजातानां स्नेहानां वरा हवसा आनूपमृगवसानां चुलुकीवसा मत्स्यवसानां पाकहंसवसा जलचर विहङ्गवसानां कुक्कुटवसा विष्किरशकुनिवसानां अजमेदः शाखादमेदसां शृङ्गवेरं कन्दानां मृद्रीका फलानां शर्करेक्षुविकाराणाम् इति प्रकृत्यैव हित तमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति ३८

श्रहिततमानप्युपदेक्ष्यामः- :– यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा भवन्ति माषाः शमीधान्यानां वर्षानादेयमुदकानाम् ऊषरं लवणानां सर्षप शाकं शाकानां गोमांसं मृगमांसानां काणकपोतः पक्षिणां भेको बिलेशयानां चिलिचिमो मत्स्यानाम् अविकं सर्पिः सर्पिषाम् अविक्षीरं क्षीराणां कुसुम्भ स्नेहः स्थावरस्नेहानां महिषवसा अनूपमृगवसानां कुम्भीरवसा मत्स्यव सानां काकमङ्खुवसा जलचरविहङ्गवसानां चटकवसा विष्किरशकुविसानां हस्तिमेदः शाखादमेदसां निकुचं फलानामालुकं कन्दानां फाणितमिक्षु विकाराणाम् इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्र व्याणि व्याख्यातानि भवन्ति इति हिताहितावयवो व्याख्यात आहारवि काराणाम् ३६

तो भूयः कर्मोषधानां च प्राधान्यतः सानुबन्धानि द्रव्याण्यनुव्याख्यास्याम तद्यथा– अन्नं वृत्तिकराणां श्रेष्ठम् उदकमाश्वासकराणां सुरा श्रमहराणां तीरं जीवनीयानां मांसं बृंहणीयानां रसस्तर्पणीयानां लवणमन्नद्रव्यरुचिकराणाम् अम्लं हृद्यानां कुक्कुटो बल्यानां नक्ररेतो वृष्याणां मधु श्लेष्मपित्तप्रशमनानां सर्पिर्वातपित्तप्रशमनानां तैलं वातश्लेष्मप्रशमनानां वमनं श्लेष्महरानां वि रेचनं पित्तहराणां वस्तिर्वातहराणां स्वेदो मार्दवकराणां व्यायामः स्थैर्यक राणां क्षारः पुंस्त्वोपघातिनां तिन्दुकमनन्नद्रव्यरुचिकराणाम् आमं कपित्थम कण्ठ्यनाम् आविकं सर्पिरहृद्यानाम् अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसांग्र हिकरक्तपित्तप्रशमनानाम् अवितीरं श्लेष्मपित्तजनानां महिषीतीरं स्वप्रज ननानां मन्दकं दध्यभिष्यन्दकराणां गवेधुकान्नं कर्शनीयानाम् उद्दालकान्नं विरूक्षणीयानाम् इक्षुर्मूत्रजननानां यवाः पुरीषजननानां जाम्बवं वातजन नानां शष्कुल्यः श्लेष्मपित्तजननानां कुलत्था अम्लपित्तजननानां माषाः श्लेष्मपित्तजननानां मदनफलं वमनास्थापनानुवासनोपयोगिनां त्रिवृत् सुख विरेचनानां चतुरङ्गलो मृदुविरेचनानां स्रुक्पयस्तीक्ष्णविरेचननां प्रत्यक्पुष्पा शिरोविरेचनानां विडङ्गं क्रिमिनानां शिरीषो विषघ्नानां खदिरः कुष्ठानां रास्त्रा वातहराणाम् ग्रामलकं वयः स्थापनानां हरीतकी पथ्यानामेरण्डमूलं वृष्यवातहराणां पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां चित्रकमूलं दीपनीय पाचनीयगुदशोथार्शः शूलहराणां पुष्करमूलं हिक्काश्वासकासपार्श्व शूलहराणां मुस्तं सांग्राहिकदीपनीयपाचनीयानाम् उदीच्यं निर्वापणदीप नीयपाचनीयच्छर्द्यतीसारहराणां कट्वङ्गं सांग्राहिकपाचनीयदीपनीयानाम् अनन्ता सांग्राहिकरक्तपित्तप्रशमनानाममृता सांग्राहिकवातहरदीपनीय श्लेष्मशोणितविबन्धप्रशमनानां बिल्वं सांग्राहिकदीपनीयवातकफप्रशम नानाम् अतिविषा दीपनीयपाचनीयसांग्राहिकसर्वदोषहराणाम् उत्पलकुमु दपद्मकिञ्जल्कः सांग्राहिकरक्तपित्तप्रशमनानां दुरालभा पित्तश्लेष्मप्रशमनानां गन्धप्रियङ्गुः शोणितपित्तश्लेष्मप्रशमनानां कुटजत्वक श्लेष्मपित्तरक्तसांग्रा हिकोपशोषणानां काश्मर्यफलं रक्तसांग्राहिकरक्तपित्तप्रशमनानां पृश्निपर्णी सांग्राहिकवातहरदीपनीय वृष्याणां विदारिगन्धा वृष्यसर्वदोषहराणां बला सांग्राहिकबल्यवातहराणां गोक्षुरको मूत्रकृच्छ्रानिलहराणां हिङ्गुनिर्यासश्छे दनीयदीपनीयानुलोमिकवातकफप्रशमनानाम् अम्लवेतसो भेदनीयदीप नीयानुलोमिकवातश्लेष्महराणां यावशूकः स्स्रंसनीयपाचनीयार्शोघ्रानां त क्राभ्यासो ग्रहणीदोषशोफार्शोघृतव्यापत्प्रशमनानां क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषाशघ्रानां क्षीरघृताभ्यासो रसायनानां समघृतसक्तुप्राशाभ्या सो बृष्योदावर्तहराणां तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां चन्दनं दुर्ग न्धहरदाहनिर्वापणलेपनानां रास्त्रागुरुणी शीतापनयनप्रलेपनानां लामञ्जको शीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां कुष्टं वातहराभ्यङ्गोपनाहोपयोगिनां मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां वायुः प्राणसं ज्ञाप्रदानहेतूनाम् अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां जलं स्तम्भनीयानां मृद्धृष्टलोष्ट्रनिर्वापितमुदकं तृष्णाच्छर्धतियोगप्रशमनानाम् अतिमात्राशनमा मप्रदोषहेतूनां यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां कालभोजनमारोग्यकराणां तृप्तिराहारगुणानां वेगसन्धारणमनारो ग्यकराणां मद्यं सौमनस्यजननानां मद्याक्षेपोधीधृतिस्मृतिहराणां गुरुभोजनं दुर्विपाककराणाम् एकाशनभोजनं सुखपरिणामकराणां स्त्रीष्वतिप्रसङ्गः शोष कराणां शुक्रवेगनिग्रहः पाण्ड्यकराणां पराघातनमन्नाश्रद्धाजननानाम् अन शनमायुषोह्रासकराणां प्रमिताशनं कर्शनीयानाम् अजीर्णाध्यशनं ग्रहणीदू षणानां विषमाशनमग्निवैषम्यकराणां विरुद्धवीर्याशनं निन्दितव्याधिकरणां प्रशमः पथ्यानां आयासः सर्वापथ्यानां मिथ्यायोगो व्याधिकराणां रजस्व लाभिगमनमलक्ष्मीमुखानां ब्रह्मचर्यमायुष्याणां परदाराभिगमनमनायुष्याणां सङ्कल्पो बृष्याणां दौर्मनस्यमवृष्याणां यथाबलमारम्भः प्राणोपरोधिनां वि षादो रोगवर्धनानां स्नानं श्रमहराणां हर्षः प्रीणनानां शोकः शोषणानां निवृ त्तिः पुष्टिकराणां पुष्टिः स्वप्नकराणाम् अतिस्वस्तन्द्राकराणां सर्वरसाभ्यासो बलकराणाम् एकरसाभ्यासो दौर्बल्यकराणां गर्भशल्यमाहार्याणाम् अजीर्ण ‘मुद्धार्याणां बालो मृदुभेषजीयानां वृद्धोयाप्यानां गर्भिणी तीक्ष्णौषधव्यवा यव्यायामवर्जनीयानां सौमनस्यं गर्भधारणानां सन्निपातो दुश्चिकित्स्यानाम् श्रामविषमचिकित्स्यानां ज्वरो रोगाणां कुष्ठं दीर्घरोगानां राजयक्ष्मा रोगस मूहानां प्रमेहोऽनुषङ्गिणां जलौकसोऽनुशास्त्राणां बस्तिस्तन्त्राणां हिमवानौष धिभूमीनां सोम ओषधीनां मरुभूमिरारोग्यदेशानाम् अनूपोऽहितदेशानाम् निर्देशकारित्वमातुरगुणानां भिषक् चिकित्साङ्गानां नास्तिको वर्ज्यानां लौ ल्यं क्लेशकराणाम् अनिर्देशकारित्वमरिष्टानां अनिर्वेदो वार्तलक्षणानां वै द्यसमूहो निःसंशयकराणां योगो वैद्यगुणानां विज्ञानमौषधीनां शास्त्रसहि तस्तर्कः साधनानां संप्रतिपत्तिः कालज्ञानप्रयोजनानाम् अव्यवसायः का लातिपत्तिहेतूनां दृष्टकर्मता निःसंशयकराणाम् असमर्थता भयकराणां तद्वि द्यसंभाषा बुद्धिवर्धनानाम् प्राचार्यः शास्त्राधिगमहेतूनाम् आयुर्वेदोऽमृतानां सद्वचनमनुष्टेयानाम् असद्ग्रहणं सर्वाहितानां सर्वसन्न्यासः सुखानामिति ४०

भवन्ति चात्र-

ग्राणां शतमुद्दिष्टं यद्विपञ्चाशदुत्तरम् अलमेतद्विकाराणां विघातायोपदिश्यते ४१

समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम् ज्यायस्त्वं कार्यकर्तृत्वे वरत्वं चाप्युदाहृतम् ४२

वातपित्तकफानां च यद्यत् प्रशमने हितम् प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम् ४३

एतन्निशम्य निपुणं चिकित्सां संप्रयोजयेत् एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते ४४

पथ्यं पथोऽनपेतं यद्यच्चोक्तं मनसः प्रियम् यच्चाप्रियमपथ्यं च नियतं तन्न लक्षयेत् ४५

मात्राकालक्रियाभूमिदेहदोषगुणान्तरम् प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथा तथा ४६

तस्मात् स्वभावो निर्दिष्टस्तथा मात्रादिराश्रयः तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता ४७

तदात्रेयस्य भगवतो वचनमनुनिशम्य पुनरपि भगवन्तमात्रेयमग्निवेश उवाच – यथोद्देशमभिनिर्दिष्टः केवलोऽयमर्थो भगवता श्रुतश्चास्माभिः आवद्रव्याणामिदानीमनपवादं लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ४८

तमुवाच भगवानात्रेयः धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासवयोनयोऽग्निवेश संग्रहेणाष्टौ शर्करानवमीकाः तास्वेव द्रव्यसंयोगकरणतोऽपरिसंख्येयासु यथापथ्यतमानामासवानां चतु रशीतिं निबोध
तद्यथा-सुरासौवीरतुषोदकमैरेयमेदकधान्याम्लाः षड् धान्यासवा भवन्ति मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयामलकमृगलिण्डि काजाम्बवकपित्थकुवलबदरकर्कन्धुपीलुप्रियालपनसन्यग्रोधाश्वत्थप्लक्षक पीतनोदुम्बराजमोदशृङ्गाटकशङ्खिनीफलासवाः षड्विंशतिर्भवन्ति विदारिंग न्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्रवन्तीबिल्वोरुबूकचित्रकमू लैरेकादश मूलासवा भवन्ति शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिकर दरसप्तपर्णार्जुनासनारिमेदतिन्दुककिणिहीशमीशुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकैः सारासवा विंशतिर्भवन्ति पद्मोत्पलनलिकुमुदसौगन्धिकपुण्ड रीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैर्दश पुष्पासवा भवन्ति इक्षुकाण्डेक्ष्वि नुवालिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति पटोलताडकपत्रासवौ द्वौ भवतः तिल्वकलोधैलवालुकक्रमुकचतुर्थास्त्वगासवा भवन्ति शर्करासव एक एवेति एवमेषामासवानां चतुरशीतिः परस्परेणासंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा भवति
एषामासवानामासुतत्वादासवसंज्ञा द्रव्यसंयोगविभागविस्तारस्त्वेषां बहुविधकल्प: संस्कारश्चयथास्वं संयोगसंस्कारसंस्कृता ह्यासवाः स्वं कर्म कुर्वन्ति संयोगसंस्कारदेशकालमात्रादयश्च भावास्तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीक्ष्येति ४६

भवति चात्र-

मनः शरीरामिबलप्रदानामस्वप्नशोकारुचिनाशनानाम् संहर्षणानां प्रवरासवाना मशीतिरुक्ता चतुरुत्तरेषा ५०

तत्र श्लोकः

शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयं च उवाच यज्जःह् पुरुषादिकेऽस्मिन् मुनिस्तथाग्रयाणि वरासवांश्च ५१

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने यज्ञः पुरुषीयो नाम पञ्चविंशोऽध्यायः २५

Leave A Comment