Charaka samhita –लङ्घनबृंहणीयमध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 22 {योजना चतुष्क } {लङ्घनबृंहणीयमध्याय}

अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान् षडग्निवेशप्रमुखानुक्तवान् परिचोदयन् ३

लङ्घनं बृंहणं काले रूक्षणं स्नेहनं तथा स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक्तमुक्तवन्तमात्रेयमग्निवेशउवाच ह ५

भगवल्लँङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम् ६

के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो ७ मताः

लङ्घनप्रभृतीनां च षण्णामेषां समासतः कृताकृतातिवृतानां लक्षणं वक्तुमर्हसि ८

तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ६

बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम् रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम् १०

स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम् स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम् ११

स्तम्भनं स्तम्भयति यतिमन्तं चलं ध्रुवम् लघूष्णतीण विशदं रूक्षं सूक्ष्मं खरं सरम् १२

कठिनं चैव यद्रव्यं प्रायस्तल्लङ्घनं स्मृतम् गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम् १३

प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम् १४

प्रायशः कठिनं चैव यद्रव्यं तद्धि रूक्षणम् द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम् प्रायो मन्दं मृदु च यद्रव्यं तत्स्स्रेहनं मतम् १५

उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम् द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते १६

शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम् यद्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम् १७

चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् १८

प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः १६

येषां मध्यबला रोगाः कफपित्तसमुत्थिताः वम्यतीसारहृद्रोगविसूच्यलसकज्वराः २०

विबन्धगौरवोद्गारहृल्लासारोचकादयः पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत् २१

एत एव यथोद्दिष्टा येषामल्पबला गदाः पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत् २२

रोगाञ्जयेन्मध्यबलान् व्यायामातपमारुतैः बलिनां इं पुनर्येषां रोगाणामवरं बलम् २३

त्वग्दोषिणां प्रमीढानां स्निग्धाभिस्यन्दिबृंहिणाम् शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् २४

अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम् मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते २५

क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः २६

शोषाशग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः २७

स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः शर्कराक्षीरसपषि सर्वेषां विद्धि बृंहणम् २८

कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम् २६

अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः ३०

स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम् ३१

द्रवं तन्वसरं यावच्छीतीरकरणमौषधम् स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत् ३२

पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः विषस्वेदातियोगार्ताः स्तम्भनीया निदर्शिताः ३३

वातमूत्रपुरीषाणां विसर्गे गारलाघवे हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते ३४

स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ३५

पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ३६

मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत् ३७

बलं पृष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम् लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते ३८

कृतातिकृतलिङ्गं यल्लिङ्घिते तद्धि रूक्षिते स्तम्भितः स्याद्वले लब्धे यथोक्तैश्चामयैर्जितैः ३६

श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसंग्रहः हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम् ४०

लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः तदौषधानां धातूनामशमो वृद्धिरेव च ४१

इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः साध्यानां साधने सिद्धा मात्राकालानुरोधिनः ४२

भवति चात्र-

दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्युपक्रमा षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा ४३

तत्र श्लोकाः

इत्यस्मिल्लङ्घनाध्याये व्याख्याताः षडुपक्रमाः यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते ४४

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयो नामद्राविंशोऽध्यायः २२

Adil Farooq Malik: The Author is An Ayurveda Scholar. If you find the blogs/articles informative : do share it and if you have any query, leave it in the contact us tab. Thank You