Chapter 28 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charaka samhita –– विविधाशितपीतीयमध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 28 { चतुष्क } {विविधाशितपीतीयमध्याय}

अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः१

इति ह स्माह भगवानात्रेयः २

विविधमशितं पीतं लीटं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथा स्वेनोष्मणा सम्यग्विपच्यमानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्व धातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीर
धातूनूर्जयति च धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते ३

तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तकिट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाः पुष्यन्ति
पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसिपञ्चेन्द्रियव्याणि धातुप्रसादसंज्ञकानि शरीरसन्धिवन्धपिच्छादयश्चावयवाः ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मा नमनुवर्तन्ते यथावयः शरीरम् एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूला भ्यां रसः साम्यमुत्पादयत्यारोग्याय किट्टं च मलानामेवमेव स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते ४

तेषां तु मलप्रसादाख्यानां धातूनां स्त्रोतांस्ययनमुखान अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति ५

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच दृश्यन्ते हि भगवन् हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च तथैवाहितसमाख्यातम् एवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति ६

तमुवाच भगवानात्रेयः न हिताहारोपयोगिनामनिवेश तन्निमित्ता व्याधयो जायन्ते न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति सन्ति ह्यतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः तद्यथा–कालविपर्ययः प्रज्ञापरा धः शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरूषमशुभेनोपपादयन्ति तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः

न हि सर्वाण्यपथ्यानि तुल्यदोषाणि न च सर्वे दोषास्तुल्यबलाः न च स र्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं संपद्यते स एव दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतन समुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च संपद्यते शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसा त्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि च भवन्त्यव्याधिसहानि विपरी तानि पुनर्व्याधिसहानि
एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमु त्थाश्चिरकारिणश्च भवन्ति त एव वातपित्तश्लेष्माणः स्थानविशेष प्रकुपिता व्याधिविशेषानभिनिर्वर्त यन्त्यग्निवेश ७

तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सं भवन्ति तांस्तान् यथावदनुव्याख्यास्यामः ८

अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता हल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ६

पाण्डत्वं स्रोतसां रोधः क्लैव्यं सादः कृशाङ्गता नाशोऽग्नेरयथाकालं वलयः पलितानि च १०

रसप्रदोषजा रोगा वक्ष्यन्ते रक्तदोषजाः
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः ११

गुदमेढ़ास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः नीलिका कामला व्यङ्गः पिप्लवस्तिलकालकाः १२

दद्रुश्चर्मदलं श्वित्रं पामा कोठास्त्रमण्डलम् रक्तप्रदोषाजायन्ते शृणु मांसप्रदोषजान १३

अधिमांसार्बुद कीलं गलशालूकशुण्डिके पूतिमांसालजीगण्डगण्डमालोपजिह्निकाः १४

विद्यान्मांसाश्रयान् मेदः संश्रयांस्तु प्रचक्ष्महे निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च १५

अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः १६

रुक पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा रुषां स्थूलमूलानां पर्वजानां च दर्शनम् १७

मज्जप्रदोषात् शुक्रस्य दोषात् क्लैब्यमहर्षणम् रोगि वा क्लीबमल्पायुविरूपं वा प्रजायते १८

न चास्य जायते गर्भः पतति प्रस्रवत्यपि शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् १६

इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः

उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते २०

स्नायौ सिराकाण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम्

स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः २१

मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च २२

विविधादशितात् पीतादहिताल्लीढखादितात्

भवन्त्येते मनुष्याणां विकारा य उदाहृताः २३

तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा
हितान्येवाशितादीनि न स्युस्तजास्तथाऽऽमयाः२४


रसजानां विकाराणां सर्वं लङ्घनमौषधम्
विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम् २५

मांसजानां तु संशुद्धिः शस्त्रक्षाराम्रिकर्म च अष्टौनिन्द्रितिकेऽध्याये मेदोजानां चिकित्सितम् २६

अस्याश्रयाणा व्याधीनां पञ्चकर्माणि भेषजम् बस्तयः क्षीरसपषि तिक्तकोपहितानि च २७

मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम् अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया २८

शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके २६

नवेगान्धारणेऽध्याये चिकित्सासंग्रहः कृतः मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित् ३०

व्यायामादूष्मणस्तैदण्याद्धितस्यानवचारणात् कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च ३१

तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ३२

वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोध शाखा मुक्त्वा मलाः कोष्टं यान्ति वायोश्च निग्रहात् ३३

प्रजातानामनुत्पत्तौ जातानां विनिवृत्त रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत् ३४

सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः
ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः ३५

हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ३६



श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्
वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम् ३७

लौकिकं नाश्रयन्त्येते गुणा मोहरजः श्रितम् तन्मूला बहवो यन्ति रोगाः शारीरमानसाः३८

प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते
संधारयति वेगांश्च सेवते साहसानि च ३६

तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते ४०

न रागानाप्यविज्ञानादाहारानुपयोजयेत् परीक्ष्य हितमश्नीयाद्देहो ह्याहारसंभवः ४१

आहारस्य विधावष्टौविशेषा हेतुसंज्ञकाः
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत् ४२

परिहार्याण्यपथ्यानि सदा परिहरन्नरः भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः ४३

यत्तु रोगसमुत्थानमशक्यमिह केनचित् परिहर्तुं न तत् प्राप्य शोचितव्यं मनीषिभिः ४४

तत्र श्लोकाः-

आहारसंभवं वस्तु रोगाश्चाहारसंभवाः हिताहितविशेषाञ्च विशेषः सुखदुःखयोः ४५

सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः
विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक् ४६

तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च
दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ४७

प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत् विविधाशितपीतीये तत् सर्वं संप्रकाशितम् ४८

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीती नामाष्टाविंशोऽध्यायः २८

इत्यन्नपानचतुष्कः ७

Leave A Comment