Sutra Sthana – Chapter 23 {योजना चतुष्क } {संतर्पणीयमध्याय}
अथातः संतर्पणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
संतर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः ३
गोरसैर्गौडिकैश्चान्नैः पैष्टिकैश्चातिमात्रशः चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः ४
रोगास्तस्योपजायन्ते संतर्पणनिमित्तजाः प्रमेहपिडकाकोठकण्डूपाण्ड्वामयज्वराः ५
कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः तन्द्रा क्लैव्यमतिस्थौल्यमालस्यं गुरुगात्रता ६
इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः ७
शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम् व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि च ८
सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम् चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः ६
त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम् मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत् १०
तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम् मात्राकालप्रयुक्तेन संतर्पणसमुत्थिताः ११
मुस्तमारग्वधः पाठा त्रिफला देवदारु च श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वक्च वत्सकात् १२
रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः संतर्पणकृतैः सर्वैर्व्याधिभिः संप्रमुच्यते १३
एभिश्चोद्वर्तनोद्धर्षस्नानयोगोपयोजितैः त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः १४
कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा वृषकैले श्वदंष्ट्रा च खराह्ना चाश्मभेदकः १५
तक्रेण दधिमण्डेन बदराम्लरसेन वा मूत्रकृच्छ्रं प्रमेहं च पीतमेतद्व्यपोहति १६
तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव च अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम् १७
त्र्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नमजमोदकः मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः १८
व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम् वृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम् १६
हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान् सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत् २०
चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत् २१
प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः प्रमेहा मूढवाताश्च कुष्ठान्यशसि कामलाः २२
प्लीहा पाण्ड्वामयः शोफो मूत्रकृच्छ्रमरोचकः हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः २३
क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते २४
व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः संतर्पणकृतैर्दोषैः स्थौल्यं मुक्त्वा विमुच्यते २५
उक्तं संतर्पणोत्थानामपतर्पणमौषधम् वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः २६
देहाग्निबलवर्णौजः शुक्रमांसपरिक्षयः ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः २७
श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा विरामूत्रसंग्रहः शूलं जङ्घोरुत्रिकसंश्रयम् २८
पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात् २६
तेषां संतर्पणं तज्ज्ञैः पुनराख्यातमौषधम् यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ३०
सद्यः क्षीणो हि सद्यो वै तर्पणेनोपची नर्ते संतर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति ३१
देहाग्निदोषभैषज्यमात्राकालानुवर्तिना कार्यमत्वरमाणेन भेषजं चिरदुर्बले ३२
हिता मांसरसास्तस्मै पयांसि च घृतानि च स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये ३३
ज्वरकासप्रसक्ताणां कृशानां मूत्रकृच्छ्रिणाम् तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः ३४
शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः सतुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते ३५
सक्तवो मदिरा चौद्रं सर्करा चेति तर्पणम् पिबेन्मारुतविरामूत्रकफपित्तानुलोमनम् ३६
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम् तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत् ३७
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः परूषकैः सामलकैर्युक्तो मद्यविकारनुत् ३८
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः ३६
तत्र श्लोकः-
सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात् सन्तर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः ४०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः २३