Chapter 30 Charak Samhita Sutra Sthana Adil Farooq Malik  

Charaka Samhita –– अर्थेदशमहामूलीयमध्याय

Photo by Arulonline on Pexels.com

Sutra Sthana – Chapter 30 {अर्थेदशमहामूलीयमध्याय}

अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः १

इति ह स्माह भगवानात्रेयः २

अर्थे दश महामूलाः समासक्ता महाफलाः महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः ३

षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम् आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम् ४

प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते गोपानसीनामागारकर्णिकेवार्थचिन्तकैः ५

तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम् ६

तत् परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ७

तेन मूलेन महता महामूला मता दश प्रोजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः ८

येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः यदृते सर्वभूतानां जीवितं नावतिष्ठते

यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः संवर्तमानं हृदयं समाविशति यत् पुरा १०

यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम् यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः ११

तत्फला बहधा वा ताः फलन्तीव महाफलाः
ध्मानाद्धमन्यः स्त्रवणात् स्त्रोतांसि सरणात्सराः १२

तन्महत् ता महामूलास्तच्चौजः परिरक्षता परिहार्या विशेषेण मनसो दुःखहेतवः १३

हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम् तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च

अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनामेकं बृंहणानामेकं न न्दनानामेकं हर्षणानामेकमयनानामिति तत्राहिंसा प्राणिनां प्राणिनां प्राणवर्धनानामुत्कृष्टतमं वीर्यं वलवर्धनानां वि द्या बृंहणानाम् इन्द्रियजयो नन्दनानां तत्त्वावबोधो हर्षणानां ब्रह्मचर्यमयनानाम्मिति एवमायुर्वेदविदो मन्यन्ते १५
तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशो ऽर्थावयवशश्च प्रवक्तारो मन्तव्याः तत्राह- कथं तन्त्रादीनि वाक्यशोवाक्यार्थशोऽर्थावयवशश्चोक्तानि भव न्तीति १६

अत्रोच्यते–तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम् १७

बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिर्व्याससमासप्रतिज्ञा हेतूदाहरणोपनय निगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरुच्यमानं वाक्यार्थशो भवत्युक्तम् तन्त्रनियतानामर्थदुर्गाणां पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम् १६

तत्र चेत् प्रष्टारः स्युः चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायु र्वेदविदः किमायुः कस्मादायुर्वेदः किमर्थमायुर्वेदः शाश्वतोऽशाश्वतो वा कति कानि चास्याङ्गानि कैश्चायमध्येतव्यः किमर्थं च इति २०

तत्र भिषजा पृष्टेनैवंचतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरा देश्या वेदो ह्याथर्वणो दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवास मन्त्रादिपरिग्रहाच्चिकित्सां प्राह चिकित्सा चायुषो हितायोपदिश्यते २१

वेदं चोपदिश्यायुर्वाच्यं तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येको ऽर्थः २२

तदायुर्वेदयतीत्यायुर्वेदः कथमिति चेत् उच्यते – स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणातश्च यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः तत्रायुष्याण्यनायुयाणि च द्रव्यगुणकर्माणि केवलेनोपदेच्यन्ते तन्त्रेण २३

तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानु गतबलवीर्ययशः पौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये व र्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते सुखमतो विपर्ययेण हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमु – पसेवमानस्य पूजार्हसंपूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः सुनियतरागरेषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशम नित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमति – मतो हितमायुरुच्यते अहितमतो विपर्ययेण २४

प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः अयमस्मात् क्षणान्मुहूर्तादिवसात्त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् ष रामासात् संवत्सराद्वा स्वभावमापत्स्यत इति तत्र स्वभावः प्रवृत्तेरुपरमो म

रणमनित्यता निरोध इत्येकोऽर्थः इत्यायुषः प्रमाणम् तो विपरीतमप्रमाण मरिष्टाधिकारे देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणमायुर्वेद २५

प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च २६

सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते अनादित्वात् स्वभावसंसिद्धलक्षणत्वात् भावस्वभावनित्यत्वाच्च
न हि नाभुत् कदाचिदायुषः सन्तानोबुद्धिसन्तानो वा शाश्वतश्चायुषो वेदिता अनादि च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरयोगात् एष चार्थसंग्रहो विभाव्यते आयुर्वेदलक्षणमिति गुरुलघुशीतोष्ण स्त्रिग्धरूक्षादीनां द्रव्याणां सामान्यविशेषाभ्यां वृद्धिहासौ यथोक्तं– गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां एवमेवे – तरेषामिति एष भावस्वभावो नित्यः स्वलक्षणं च द्रव्याणां पृथिव्यादीनां सन्ति तु द्रव्याणि दुणाश्च नित्या नित्याः
नह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते अन्यत्रावबोधोपदेशाभ्याम् एतद्वै द्वयम
धिकृत्योत्पत्तिमुपदिशन्त्येके स्वाभाविकं चास्य लक्षणमकृतकं यदुक्तमिहाद्येऽध्याये च यथायम् अ द्रवत्वम्भावस्वभावनित्यत्वमपि चास्य यथोक्तं– गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति २७

तस्यायुर्वेदस्याङ्गान्यष्टौ तद्यथा कायचिकित्सा शालाक्यं शल्यापहर्तृकं वि षगरवैरोधिकप्रशमनं भूतविद्या कोमारभृत्यकं रसायनं वाजीकरणमिति २८

स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैः रक्षार्थ राजन्यैः वृत्त्यर्थं वैश्यैः सामान्यतो वाधर्मार्थकामपरिग्रहार्थं सर्वैः तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धु गुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति यच्चायुर्वेदोक्तमध्यात्ममनु

ध्यायति वेदयत्यनुविधीयते वा सोऽस्य परो धर्मः या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च या च स्वपरि गृहीतानां प्राणिनामातुर्यादारता सोऽस्यार्थः यत् पुनरस्य विद्वद्ग्रहणयशः शरण्यत्वं च या च संमानशुश्रूषा यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः इति यथाप्रश्नमुक्तमशेषेण २६

अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति–तन्त्रं तन्त्रार्थान् स्थानं स्थानार्थान् अध्यायम् अध्यायार्थान् प्रश्नं प्रश्नार्थांश्चति पृष्टेन चैतद्वक्तव्यम शेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ३०

तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमिप्यनर्थान्तरम् ३१

तन्त्रार्थः पुनः स्वलक्षणैरुपदिष्टः स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकाल कर्तृकरण विधिविनिश्चयादशप्रकरणः तानि च प्रकरणानि केवलेनोपदेच्यन्ते तन्त्रेण ३२

तन्त्रस्यास्याष्टौ स्थानानि तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि तत्र त्रिंशदध्यायकं श्लोकस्थानम् अष्टष्टाध्यायकानि निदानविमानशारीर स्थानानि द्वादशकमिन्द्रियाणां त्रिशकं चिकित्सितानां द्वादशके कल्पसि द्धिस्थाने भवतः ३३

भवति चात्र-

द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसंज्ञकेषु ६४

स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते सविंशध्यायशतं शृणु नामक्रमागतम् ३५

दीर्घञ्जीवोऽप्यपामार्गतण्डलारग्वधादिकौ षड्विरेकाश्रयश्चेति चतुष्को भेषजाश्रयः ३६

मात्रातस्याशितीयौ च नवेगान्धारणं तथा इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः ३७

खुड्डाकश्च चतुष्पादो महांस्तित्रैषणस्तथा सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः ३८

स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः चिकित्साप्राभृतश्चैव सवं एव प्रकल्पनः ३६

कियन्तः शिरसीयश्च त्रिशोफाष्टोदरादिकौ रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम् ४०

अष्टौनिन्दितसंख्यातस्तथा लङ्घनतर्पणे विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः ४१

यज्ञः पुरुषसंख्यातो भद्रकाप्यानपानिकौ विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः ४२

दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः द्वावेतौ प्राणदेहार्थी प्रोक्तौ वैद्यगुणाश्रयौ ४३

औषधस्वस्थनिर्देशकल्पनारोगयोजनाः चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः ४४

द्वौ चान्त्यौ संग्रहाध्यायाविति त्रिंशकमर्थवत् श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् ४५

चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः श्लोकार्थः संग्रहार्थश्च श्लोकस्थानमतः स्मृतम् ४६

ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः
शोषोन्मादनिदाने च स्यादपस्मारिणां च यत् ४७

इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते रसेषु त्रिविधो कुक्षौ ध्वंसे जनपदस्य च ४८

त्रिविधे रोग विज्ञाने स्रोतः स्वपि च वर्तने रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते ४६

अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा कतिधापुरुषीयं च गोत्रेणातुल्यमेव च ५०

खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते
पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ ५१

शरीरसंख्या सूत्रं च जातेष्टममुच्यते इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना ५२

वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः ५३

कतमानि शरीरीयः पन्नरूपोऽप्यवाक्शिराः यस्यश्यावनिमित्तश्च सद्योमरण एव च ५४

अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्
द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम् ५५

अमयामलकीयं च प्राणकामीयमेव च करप्रचितकं वेदसमुत्थानं रसायनम् ५६

संयोगशरमूलीयमासिक्ततीरकं तथा माषपर्णभृतीयं च पुमान् जातबलादिकम् ५७

चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते रसायनमिति ज्ञेयं वाजीकरणमेव च ५८

ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम् ५६

ग्रहणीपाण्डरोगाणां श्वासकासातिसारिणाम् छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः ६०

द्विवणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च
वातरोगे वातरक्ते योनिव्यापत्सु चैव यत् ६१

त्रिंशच्चिकित्सितान्युक्तानि प्रतः कल्पान् प्रचक्ष्महे फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च ६२

पञ्चमो वत्सकस्योक्तः पष्ठश्च कृतवेधने श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गले ६३

तिल्वकस्य सुधायाश्च सप्तलाशाङ्खिनीषु च
दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते ६४

कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च स्नेहव्यापदिकी सिद्धिनेत्रव्यापदिकी तथा ६५

सिद्धिः शीधनयोश्चैव बस्तिसिद्धिस्तथैव च प्रासृती मर्मसंख्याता सिद्धिर्बस्त्याश्रया च या ६६

फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तर संज्ञिता सिद्धयो द्वादशैवैतास्तन्त्रं चात्र समाप्यते ६७

स्वे स्वे स्थाने तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते तं ब्रूयात् सर्वतः सर्वं यथास्वं ह्यर्थसंग्रहात् ६८

पृच्छा यन्त्राद्यथाम्नायं विधिना प्रश्न उच्चते प्रश्नार्थो युक्तिमांस्तस्य तन्त्रणैवार्थनिश्चयः ६६

निरुक्तं तन्त्रणात्तन्त्रं स्थानमर्थप्रतिष्ठया अधिकृत्यार्थमध्यायनामसंज्ञा प्रतिष्ठिता ७०

इति सर्वं यथाप्रश्नमष्टकं संप्रकाशितम्
कार्येन चोक्तस्तन्त्रस्य संग्रहः सुविनिश्चितः ७१

सन्ति पाल्लविकोत्पाताः संक्षोभं जनयन्ति ये वर्तकानामिवोत्पाताः सहसैवाविभाविताः ७२

तस्मात्तान् पूर्वसंजल्पे सर्वत्राष्टकमादिशेत्
परावरपरीक्षार्थं तत्र शास्त्रविदां बलम् ७३

शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वतकाः ७४

पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते स सत्यं वृकमासाद्यं प्रकृतिं भजते पशुः ७५

तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौवर्यसाधनः
स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते ७६

बभ्रुगूढ इवोर्णाभिरबुद्धिरबहुश्रुतः
किं वै वक्ष्यति संजल्पे कुण्डभेदी जडो यथा ७७

सद्वृत्तैर्न विगृह्णीयात् भिषगल्पश्रुतैरपि हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः ७८

दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्ध भाषिणः प्रायः प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः ७६

तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः स्वल्पधारज्ञमुखरान्मर्षयेन्न विवादिनः ८०

परो भूतेष्वनुक्रोश स्तत्वज्ञाने परा दया येषां तेषामसद्वादनिग्रहे निरता मतिः ८१

असत्पचाक्षणित्वार्तिदम्भपारुष्यसाधनाः
भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः ८२

तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान् प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः ८३

समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्
सुखं समग्र विज्ञाने विमले च प्रतिष्ठितम् ८४

इदमेवमुदारार्थमज्ञानां न प्रकाशकम्
शास्त्रं दृष्टि प्रणष्टानां यथैवादित्यमण्डलम् ८५

तत्रश्लोकाः

अर्थे दशमहामूलाः संज्ञा चासां यथा कृता अयनान्ताः षडग्रयाश्च रूपं वेदविदां च यत् ८६

सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः ८७

अर्थ दशमहामूले सर्वमेतत् प्रकाशितम् संग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः ८८

यथा सुमनसां सूत्रं संग्रहार्थं विधीयते संग्रहार्थं तथाऽर्थानामृषिणा संग्रहः कृतः ८६

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थदशमहामूलीयो नाम त्रिंशोऽध्यायः ३०

निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते ६०

Leave A Comment