charak

प्रमेहनिदानम् – Charak Samhita

Nidana Sthana – Chapter 4 अथातः प्रमेहनिदानं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२||त्रिदोषकोपनिमित्ता विंशतिः प्रमेहा भवन्ति विकाराश्चापरेऽपरिसङ्ख्येयाः|तत्र यथा त्रिदोषप्रकोपः प्रमेहानभिनिर्वर्तयति तथाऽनुव्याख्यास्यामः||३|| इह खलु निदानदोषदूष्यविशेषेभ्यो विकारविघातभावाभावप्रतिविशेषा भवन्ति|यदा ह्येते त्रयो निदानादिविशेषाः परस्परं नानुबध्नन्त्यथवा कालप्रकर्षादबलीयांसोऽथवाऽनुबध्नन्ति न तदा विकाराभिनिर्वृत्तिः, चिराद्वाऽप्यभिनिर्वर्तन्ते, तनवो वा भवन्त्ययथोक्तसर्वलिङ्गा वा; विपर्यये विपरीताः; इति सर्वविकारविघातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः||४|| तत्रेमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिर्निर्वृत्तिकरा भवन्ति; तद्यथा- हायनकयवकचीनकोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेन चोपयोगः, तथा सर्पिष्मतां नवहरेणुमाषसूप्यानां, ग्राम्यानूपौदकानां च मांसानां, शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां, क्षीरनवमद्यमन्दकदधिद्रवमधुरतरुणप्रायाणां चोपयोगः, मृजाव्यायामवर्जनं, स्वप्नशयनासनप्रसङ्गः, यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रसञ्जननः, स सर्वो निदानविशेषः||५|| बहुद्रवः श्लेष्मा दोषविशेषः||६|| बह्वबद्धं मेदो मांसं शरीरजक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौजःसङ्ख्यात इति दूष्यविशेषाः||७|| त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्मा प्रकोपमापद्यते, प्रागतिभूयस्त्वात्; स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते, शरीरशैथिल्यात्; स विसर्पञ् शरीरे मेदसैवादितो मिश्रीभावं गच्छति, मेदसश्चैव बह्वबद्धत्वान्मेदसश्च गुणैः समानगुणभूयिष्ठत्वात्; स मेदसा मिश्रीभवन् दूषयत्येनत्, विकृतत्वात्; स विकृतो दुष्टेन मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्गं गच्छति, क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्; स मांसे मांसप्रदोषात् पूतिमांसपिडकाः शराविकाकच्छपिकाद्याः सञ्जनयति, अप्रकृतिभूतत्वात्; शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन परिणमयति, मूत्रवहानां च स्रोतसां वङ्क्षणबस्तिप्रभवाणां मेदःक्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते; ततः प्रमेहांस्तेषां स्थैर्यमसाध्यतां वा जनयति, प्रकृतिविकृतिभूतत्वात्||८|| शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यते वैषम्ययुक्तैः; तद्यथा- श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दैः, तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति||९||ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति; तद्यथा- उदकमेहश्च, इक्षुवालिकारसमेहश्च, सान्द्रमेहश्च, सान्द्रप्रसादमेहश्च, शुक्लमेहश्च, शुक्रमेहश्च, शीतमेहश्च, सिकतामेहश्च, शनैर्मेहश्च, आलालमेहश्चेति||१०||ते दश प्रमेहाः साध्याः; समानगुणमेदःस्थानकत्वात्, कफस्य प्राधान्यात्, समक्रियत्वाच्च||११|| तत्र श्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति-||१२||अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्|श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति||१३||अत्यर्थमधुरं शीतमीषत्पिच्छिलमाविलम्|काण्डेक्षुरसमङ्काशं श्लेष्मकोपात् प्रमेहति||१४||यस्य पर्युषितं मूत्रं सान्द्रीभवति भाजने|पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम्||१५||यस्य संहन्यते मूत्रं किञ्चित् किञ्चित् प्रसीदति|सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः||१६||शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति|पुरुषं कफकोपेन तमाहुः शुक्लमेहिनम्||१७||शुक्राभं शुक्रमिश्रं वा मुहुर्मेहति यो नरः|शुक्रमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||१८||अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम्|शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||१९||मूर्तान्मूत्रगतान् दोषानणून्मेहति यो नरः|सिकतामेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२०||मन्दं मन्दमवेगं तु कृच्छ्रं यो मूत्रयेच्छनैः|शनैर्मेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||२१||तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति|आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२२||इत्येते दश प्रमेहाः श्लेष्मप्रकोपनिमित्ता व्याख्याता भवन्ति||२३|| उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथाऽतितीक्ष्णातपाग्निसन्तापश्रम क्रोधविषमाहारोपसेविनश्च तथाविधशरीरस्यैव क्षिप्रं पित्तं प्रकोपमापद्यते, तत्तु प्रकुपितं तयैवानुपूर्व्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्तयति||२४||तेषामपि तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति; तद्यथा- क्षारमेहश्च, कालमेहश्च, नीलमेहश्च, लोहितमेहश्च, माञ्जिष्ठमेहश्च, हारिद्रमेहश्चेति||२५||ते षड्भिरेव क्षाराम्ललवणकटुकविस्रोष्णैः पित्तगुणैः पूर्ववद्युक्ता भवन्ति||२६|| सर्व एव ते याप्याः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति||२७||तत्र श्लोकाः पित्तप्रमेहविशेषविज्ञानार्था भवन्ति-||२८||गन्धवर्णरसस्पर्शैर्यथा क्षारस्तथाविधम्|पित्तकोपान्नरो मूत्रं क्षारमेही प्रमेहति||२९||मसीवर्णमजस्रं यो मूत्रमुष्णं प्रमेहति|पित्तस्य परिकोपेण तं विद्यात् कालमेहिनम्||३०||चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः|पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम्||३१||विस्रं लवणमुष्णं च रक्तं मेहति यो नरः|पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम्||३२||मञ्जिष्ठोदकसङ्काशं भृशं विस्रं प्रमेहति|पित्तस्य परिकोपात्तं विद्यान्माञ्जिष्ठमेहिनम्||३३||हरिद्रोदकसङ्काशं कटुकं यः प्रमेहति|पित्तस्य परिकोपात्तं विद्याद्धारिद्रमेहिनम्||३४||इत्येते षट् प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति||३५|| कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थापन-शिरोविरेचनातियोगसन्धारणानशनाभिघातातपोद्वेगशोकशोणितातिषेक- जागरणविषमशरीरन्यासानुपसेवमानस्य तथाविधशरीरस्यैव क्षिप्रं वातः प्रकोपमापद्यते||३६||स प्रकुपितस्तथाविधे शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रतिपद्यते तदा वसामेहमभिनिर्वर्तयति; यदा पुनर्मज्जानं मूत्रबस्तावाकर्षति तदा मज्जमेहमभिनिर्वर्तयति; यदा तु लसीकां मूत्राशयेऽभिवहन्मूत्रमनुबन्धं च्योतयति लसीकातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति, तदा स मत्त इव गजः क्षरत्यजस्रं मूत्रमवेगं, तं हस्तिमेहिनमाचक्षते; ओजः पुनर्मधुरस्वभावं, तद् यदा रौक्ष्याद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशयेऽभिवहति तदा मधुमेहं करोति||३७||… Read More

आरग्वधीयोऽध्यायः – Charak Samhita

Sutra Sthana - Chapter 3 { औषध चतुष्क } अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२|| आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे|फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||४||वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च|मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५||इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः|सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||६||कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु|भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०||तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः|तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनःशिलं स्यात्||१२||रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः|करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||१३||उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन|दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः|तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||१७|| कोलं कुलत्थाः सुरदारुरास्नामाषातसीतैलफलानि कुष्ठम्|वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८||आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्|स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्|कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||२०||उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च|घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||२१||रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च|घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||२२||वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च|२३| नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||२३||प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च|शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||२४||रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च|जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||२५||शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्|प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||२६||सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा|यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च||२७||शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना|शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः||२८||शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः|पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः||२९|| तत्र श्लोकः-इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः|चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||३०|| इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः||३||… Read More

अपामार्गतण्डुलीयोऽध्यायः – Sutra Sthana

Sutra Sthana - Chapter 2 { औषध चतुष्क } अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः||१||इति ह स्माह भगवानात्रेयः||२||अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च|विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च||३||अजाजीं चाजगन्धां च पीलून्येलां हरेणुकाम्|पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ||४||शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्|ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने||५||गौरवे शिरसः शूले पीनसेऽर्धावभेदके|क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके||६|| मदनं मधुकं निम्बं जीमूतं कृतवेधनम्|पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च||७||उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये|वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||८|| त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्|कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम्||९||पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च|पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||१०|| पाटलां चाग्निमन्थं च बिल्वं श्योनाकमेव च|काश्मर्यं शालपर्णीं च पृश्निपर्णीं निदिग्धिकाम्||११||बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्|यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च||१२||पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च|उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च||१३||अत एवौषधगणात् सङ्कल्प्यमनुवासनम्|मारुतघ्नमिति प्रोक्तः सङ्ग्रहः पाञ्चकर्मिकः||१४|| तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः|पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्||१५|| मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता|तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा||१६||… Read More

दीर्घञ्जीवितीयोऽध्यायः – Sutra Sthana

Sutra Sthana - Chapter 1 { औषध चतुष्क } अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्|इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३|| ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः|जग्राह निखिलेनादावश्विनौ तु पुनस्ततः||४||अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्|ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्||५|| विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्|तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ||६||तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः|समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे||७|| अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः|आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः||८||अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ|पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः||९||विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्|गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ||१०||साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः|बडिशः शरलोमा च काप्यकात्यायनावुभौ||११||काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ|शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च||१२||शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः|वैखानसा वालखिल्यास्तथा चान्ये महर्षयः||१३||ब्रह्मज्ञानस्य निधयो द(य)मस्य नियमस्य च|तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः||१४||सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम्|१५|… Read More